पृष्ठम्:भरतकोशः-३.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाध्यगृहापूजने दोपकथनम् अपूजयित्वा रङ्गन्तु न कुर्यात्प्रेक्षणक्रियाम् कुरुते यस्तु मूढात्मा तिर्यग्जतिमवाप्नुवात् । यश्ध कक्ष्याविभागोऽपि मुनिभिः शास्त्रचोदितः । नानादेशाश्रया रङ्गभण्डपे संप्रयुज्यते । आगम्याभूमिकायाश्च गम्या गरी नियुज्यते । आगाभ्यापे वधूर्यत्र गमाया भूमेिकां भजेत् । अपि चैकां भूमिकां तु विधाय धेनुलक्षणम्। अपरां भूमिकां प्राप्नोत्यात्मनः कौशलेन तु । इत्यादिलाटवनिपुणैर्यच नाटयक्रियेचितम् । प्रयुज्यते च तत्सर्वं नाट्यधर्मीति कथ्यते। वेमभूपालः नाट्यध लीलाङ्गहाराभिनयसन्त्वभ्रावरसैर्युतम् । अतिवाक्यक्रियायुक्तं नाट्यलक्षणसंयुतम् । खरालङ्काररुचिरं वाक्यखण्डमनोहरम् । प्राप्य वेषान्तं तै: पावर्विविधैरन्वितं च यत्। लोको वेदत्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम्। लोकाध्यात्मपदार्थेषु प्रायो नाटयं व्यवस्थितम् मण्डलानां च देशानां पुराणां धरणीभृताम् । सङ्केतपूर्वंश्चिाश्च कचित्क्रचिदुपाश्रितैः । नाट्यप्रयोो विज्ञेयो वायुसूनुमतान्तरे। विप्रदासः वेमभूपाल अथ नाटयप्रयोगस्तु द्विविधः परिकीर्तितः । सुकुमारस्तथाविद्धस्तयोर्लक्षणमुच्यते । मधुरललिताङ्गहारं महेिलाजनसंप्रयोगमभिनीयम् । स्वल्पपुरुषानुएङ्गं नाः सुकुमारमीरितं तज्ज्ञः । नाटकं च प्रकरणं भाणो वीथी व साटिका अङ्कश्चत्युपदिष्टानि रूपकाणि पुरातनैः। सुकुमारप्रयेगाणि मार्नुवैराश्रितानि तु ॥ बहुविधयुद्धनिबन्धनमुद्धतविविधाङ्गद्दारसंपन्नम् । मायेन्द्रजालबहुलं पुरुषर्बहुभिः प्रयोज्यं च स्वल्पवधूजनविलसितभारभटीसात्वतीप्रायम् । रक्षोदानवदेवैः कलेितं नाट्य तदाविद्धम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा। एतान्युक्तानि चाविद्धप्रयोगाणि प्रयोकृभिः । एतौ नाटयप्रयोगौ तु यथाभावं यथारसम्। देशीरूपकभेदेष्वष्यूहनीयो विचक्षणैः । ८ ९५ राज्यसौख्यमपि स्वल्पं भरतस्य भुनेर्मते। वराङ्गनाजनैः सङ्गः सन्नाटकविनोदनम् इतोऽधिकं सुखं किञ्चिन्न लोकं विद्यते कचित् । सुखाय यशासे धीरैर्मतं नाट्यप्रचारणम्। श्रृङ्गारलाटथमुग्रं च भूगिनाय च चित्रकम् नारीनाटधं च चालीयं शुद्धनाटथं च विश्रुतम् । हस्तचालीयनाटयं च मार्गनाटयं च सम्मतम्। मुखचालीयनाटयं च लवणीनाटयमीरितम् देशीनाटयं फेरणी च लीलांनाटयं ततः परम्। ताण्डालेिकै च सन्धिश्च प्रान्तमृत्यं प्रकाश्यते । भूचारिनाटयमावृतै विद्युद्धमरनाटयकम्। पुष्पाञ्जलेिस्तु नाटथं च चतुशितिनाट्यकम् । यत्यादिनाटयभेदाश्च भरतशैरुदाठ्ठताः ।। रतकल्पलतामञ्जरी पेरणी गौण्डली चेति नाटयं दृशविधं स्मृतम् । ततः परं प्रवक्ष्यामि नाटयनृत्तविकल्पनम्। नटस्यातिप्रवीणस्य कर्म वा नाटयमुच्यते । जगद्धः