पृष्ठम्:भरतकोशः-३.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्गे देशीति नाटयस्य भेदद्वयमुदाहृतम्। ब्रह्मणा यत्तपस्तप्त्वा मा ... शवयोः पुरा । मार्गनाटयं ततः प्राहुः तव विंशतिधोच्यते । व्यायोगसमवाकारौ वीथयङ्केहाभृगा इह । रूपकाणि दशैतानि शङ्करेण वेिभाषिरे । नाटिका प्रकरणिका भाशिका हासिका ततः । वियोगेिनी च डिमिका कलोत्साहवती पुन चित्रा जुगुप्सिता चैव विचित्राचेति दुर्गया । एवं मार्गे नाटयमुक्तं शेिवाभ्यां ब्रह्मणा पुरा । दतिलादिभिरुक्तानि देशीरूपाणि षोडश । सट्टकं त्रोटकै गोठी वृन्दकै च ततः परम् । शिल्पकं प्रेक्षणे चाप्युलापकं चेत्यतः परम् हलीसरासेिके उलेोप्य श्रीगदितं तथा । इति षोडशारूपाणि नृत्तानि द्वादश प्रोक्ता डोम्बिका भाणिका तथा। भाणकः प्रस्थानकश्च लासिकारासिकास्तथा । दुर्मलिका विदग्धश्च शिल्पिनी हस्तिनी तथा। भिन्नको तुम्बिकी चैव द्वादशोक्तानि सूरिभिं एषामलङ्कारशात्रे लक्ष्णं बहुशोदितम् ।। नाश्योपयोगिनः प्रायो विचित्राभिनया मया । ते लिख्यन्तेऽभिनेयार्थ व्यंजयन्तीव ते स्फुटम्। सन्निकर्ष विना यस्य न वेत्यर्थे कथंचन । तस्योक्तो मनसो भाव: त्रिधा तान्प्रति.कोविदैः ।। इष्टोनिष्टस्तथामध्यस्तस्याभिनयनं यथा मुखस्यातिविकासेन शरीराह्यादनेऽपि च ।। तथोल्लुकसितेनेष्टं दर्शयेन्नाश्वकोविदः । अप्रदानेन नेत्रस्य संकोचादक्षिणेऽनुयोः । परावृत्ताख्यशेषेणाप्यनिष्टं संप्रदर्शयेत्। जुगुप्सया न चात्यन्तै मनसा नातिहर्षणात् । मध्यभावेन भध्यस्थे भावं धीमान्निरूपयेत् । कर्णदेशस्थतर्जन्या तथा तिर्यङ्निरीक्षणात् । ८६७ पाश्र्धानतेन शिरमा सुधीः शब्दं प्रदर्शयेत्। तदा गाण्डमुखस्पशत्पर्श धीरैर्निश्रूपित ऋष्टया निर्वण्र्ययन्त्यापि रूपमेवं विनिर्दिशेत् । नयने किंचिदाकुंच्य फुलां कृत्वा च नासिकाम्।। एकोछासेन च प्राज्ञेो रसगन्धौ प्रदर्शयेत्। नृत्याय देवरंगायाइशाब्दाद्यभेिनये मया । निरूपितस्तथा ज्ञेयो इन्द्रियाभिनयो बुधै विधायोक्तानितैौ हस्तै पताकौ स्वस्तिकौ च्युतैौ । शिरसोद्वहितावेव तथेश्र्वप्रेक्षणेन च । प्रदोषं दिवसं रात्रिं प्रभातं गगनं घनान् जलाशयान् वनान्तांश्च नक्षत्राणि महान् दिशः । नानादृष्टिषु तं धीरोऽभिनयेन्नाट्यनृत्तये ।। एताभ्यामेव हस्ताभ्यां सनेत्रशिरसा तथा । प्रेक्षणेनापि भूमिस्थे संप्रदर्शयेत् ।। इष्टा मुकुलहस्तेन नतेन शिरसापि च । हृदि संदशहस्तेन सव्येनैकमना नटः । वितर्कितै तथा व्यालं निर्दिशेन्नाथनृत्योः । विधायोद्वाहेितं शीर्ष तथोध्र्वे हस्तपक्षकम् ।। दीर्घमानं तथोचत् प्रासादस्य प्रदर्शयेत् । अरालेन तथा वामभागीद्वाहितशीर्षतः नतध्वान्तनिमेितानि श्रान्तं वाक्यं च दर्शयेत् । परितो गतया दृष्टया तर्जन्या भ्रमणेन च । सर्वार्थग्रहणद्देश्य सुधीभेिर्नाश्यनृत्तयोः । उत्तानितौ पताकौ द्वौ कृत्वा स्वस्तिकविच्युतैौ ॥ प्रसन्नास्यं तथा स्तब्धसर्वेन्द्रिथसमन्वितः ।। शरदं निर्दिशेन्नाटये पुष्पैरपि तदुद्भवैः। कायसंकोचनाद्वके रिक्षयोध्र्चनिरीक्षणात् । आभ्यामेव कराभ्यां तु पूर्वोक्तशिरसा तथा हेभन्तर्तु विनिर्दिश्य गानवैर्मध्यमोत्तमै दन्तोष्टशिरसःकम्पाद्रात्रसेंकोचनादपि । अधमोऽभिनयेच्छीतं ऋन्दितैरपि सीत्कृतैः । उत्तमोऽपि कदाप्येवमवस्थान्तरसंयुतः । शीताभिनयनं त्वेवं विद्ध्याद्वयसनोद्भवम् ।।