पृष्ठम्:भरतकोशः-२.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहितिशब्दस्योत्पतिं तत्प्रोगे प्रयोजनरू कारणं तत्पूराः कल्पद्वारेणाह गीतवाद्यगीतवाधेोभयक्रमेण विवादो वृत्तिः मार्गाः, तद्विषयं यङ्गीतकं सहोपोहनप्रत्युपोहनैः वर्धमाननिगतेिन सहितं देवस्तुत्या च वाच्यभूतयाऽभिनन्दितं समृद्धं, तस्मिन् प्रवर्तिते प्रवृत्ते सति, तदानं गीयमानं सुखजनकमिति श्रुत्वा दैत्याद्याः क्षुभिता मात्सर्यात् । कुत । देवैरो रम्ये साधु साध्वित्यादिभिः स्तुतिभिरभिनन्द्यमानं यतः । नारदाः-सप्त रूपाधिष्ठितैर्नारदाः प्रवर्तिते, लो द्रतादिः, तालः शाम्यापात विशिष्टचतुरश्राद्य । सम्प्रधाथै परितोष्टव्यम् । तुष्याम इति स्ततिकीर्तनाभावेऽपि आभिमानिकेन निर्गतम् । वादित्रं तदूतै शुष्काख्यं वीणावा, धातुवाद्याश्रयकृतमिति धातवः तन्त्री- विशेषाङ्गलिविशेषसंयोगजा वैणवराः रञ्जनया आकृष्टविशेषस्य (धातुवाद्यस्य) सप्तभेदलक्षणं तदाश्रयणं कृतमिति चित्रम्। अव- बद्धा इति । अव, अवखेलनेन बालहेवाकपोषणन्यायेन बद्धा स्वीकृताः । एवभविनाशकारणं प्रतिपाद्य संज्ञानिर्वचनै रूपयति । निर्गतमिति तावद्वाचं नाम । निरर्थकं गीतमिति । तत्तु गन्धवै बहिर्गीतमिति स्मृतम् । कुत: । दैत्यानां स्पर्धयेति । तत्कृतोऽयं स्वीकारः। ततो हेतोः । देवानामिति देवकर्मकं यद्वहुतयेत्कृष्टतया मननं । तेन प्रयोजनभूतेन वयं देवान्दानवेभ्यो बहुत्वेन मन्या महे । तथाचेदं नाभ्यन्तरम् । बाहं गीतस्माभिर्गीयत इति तैरेव वेदितव्यः अभिनवगुप्त । ४१६ यत्तत्कीर्तिधरेण नन्दिकेश्वरमतागमित्वेन दर्शितं तदस्माभि - स्साक्षान्न दृष्टम् । तत्प्रत्यतु लिख्यते सङ्केपत तत्रकृते मार्गासारिते प्रयोगे नर्तकीचतुष्कं पटान्तर्हितपुष्प दीथ्यां पुष्पाञ्जलिमादाय प्रविश्याष्टामिः षोडशभिद्वादशभिर्वा थ: प्रतिक्षेप गीयमानः स्तिलयेन तदर्थे भावयेत्। अपकृष्ट तु पदे स्थितलयेन परिवत्र्य पूर्वरङ्गमध्ये पुष्पं त्यक्त्वा मध्यगतलयं परिवर्तद्वयमङ्गहरैः कुर्यात् । तत्र प्रथम: पञ्चकल उपोहन । पुष्पवीथ्यां सूचया भावयेत् । ततः तिस्रो वर्तितं करणं कुर्युः। चतुर्थी तु वैशाखरेचितकरणम् । एतदेव तमङ्गहौरैः कुर्यान्। ततः प्रथमवस्त्वर्थमभिनयेत्। तत्सर्वा मिलित्वा तदेव देवता - राधकं िपण्ढीबन्धं कुर्युः। तचोपोहनमङ्गहारैर्तृत्येयुः। ततो िद्वती याप्राग्वदुपोहनं प्रयुज्य द्वितीयवस्तुनः चचत्पुटात्मकेनार्थमुपान . येत् । तदेव चास्य पतिक्षेपाङ्गहारपस्तकाख्यं कुर्यात् । ततः सर्वाः श्रृङ्खलां कृत्वा पुनरुपोहनं कुर्युः । तत आद्या. प्रतिक्षेपं धृत्वा प्रथमवस्त्वथ पुनरभिनयेत् । द्वितीया चाङ्गहारं कुर्यात् । ततः प्रथमपिण्डस्योपोहनं कुर्युः । ततस्तृतीया प्रविश्योपहारं कृत्वा तृतीयवस्तुनः पञ्चपाणेरर्थमभिनयेत् । आद्यौ अङ्गहरै कुर्याताम् । ततो लतापिण्डीस्थमुपेोहनं कुर्युः । ततो द्वितीया द्वितीयस्यार्थमभिनयेत्। ततोऽङ्गहारान्कृत्वा श्रृङ्खलया सेोपेहनं कुर्युः। प्रथमा आद्यस्याभिनयनं कृत्वा आढं पिण्डीबन्धं कुर्यात् । ततस्सर्वा नार्य उपोहनं कुर्युः । पुनश्चतुर्थी तुर्यवतुनः पञ्चपाणे रर्थमभिनयेत् । ततस्सवः भेद्यकस्यः तृतीोपोहनं रचयेयः। पुनस्तृतीया तदेव भावयेत् । ततो लतास्थाः द्वितीयेोपोहनं सूच येयुः । पुनद्वितीया द्वितीयस्यार्थमभिनयेत् । अन्याहारं कृत्वा श्रृङ्लयोपोहनं कुर्यात् । आद्या प्रतिक्षेपार्थमभिनयेत् । अन्या अङ्गहारं कृत्वा विदध्युः, यदा चतुर्थक्त्वन्तात्तीयद्वितीयप्रथम वस्तूनि केवलैरेवाङ्गहारैः कुर्युः। तदेव हि पुनर्वस्त्वन्याश्रयेण तेन प्रतिक्षेपान्ते आद्या(अन्याः पिण्डीबन्धं कृत्वा रङ्गपीठं परीत्य पुष्पवीथ्यां पुष्पाणि कृत्वा अपसरेयुः । एवमन्याश्चतस्रो द्वितीयमासारितं प्रयुञ्जीरन् । एवं चतस्रश्चतस्रो यावचतस्र । उतं हि “एवं पदे पदे कार्यो विधि' रिति । पिण्डीबन्धकाले तु द्वादशमाला विकिरेयुः। तन्न षोडश सम्भूय शैवमन्यं वा पिण्डौंबन्धं कृत्वा पुष्पवीथ्यां पुष्पं प्रतिक्षिप्य निष्क्रामयेयुः । अभावे तु आसारितचतुष्कान्ता एव चतस्रस्तत्र प्रतिक्षेपाथैवद्भिः पदैः दर्शितमुपेोहनं चवत्पुटपञ्चपाणिद्वयसन्नि पाताश्चेति तालाध्यायोक्तपदैः सह भविष्यति । एवमासारित क्रिया । ततो वर्धमानं प्रयुञ्जीरन्। एकप्रघट्टकेन चतुर्भिर्नयै परिवर्त प्रयुज्य पटेऽपकर्षिते पुष्पवीथ्यां चतसृणां नर्तकीनां प्रवेशः, ततो ब्राह्मीपरिवर्तन पुष्पाञ्जलिं क्षिपेयुः । त एका ब्राह्मीमभिनयेत् । ततस्सवाः शिवीथयामासीरन् । तद्यथा एकस्या आलीढमर्थवत् भण्डलवत्खटकामुखेन । तत्पार्श्वयोः द्वौ षोडशकलानिबद्भसंभाविता गीतिकोद्दिष्टा । तदनन्तरं वर्षे मानप्रयोगे यत्प्रोक्तं भरतेन कण्डिकाः विशालाद्वः ते प्रयोज्य । वर्धमानानन्तरं ध्रुवां कुर्यात्) इति मन्दिकेश्वरमतानुसारेणार्य विवपूर्वरङ्गविधिरिति मया न बद्ध । नाट्यशास्त्रव्याख्यायामेकोनत्रिंशाध्याये उतं तव द्रष्टव्यम् बहिर्थबनिकाङ्गानि-पूरङ्गाङ्गानि प्रत्याहाराद्यासारितक्रियापर्यन्तं नवाङ्गानि पूर्वरङ्गाङ्गानां अन्तर्थ वनिकाङ्गानीत्युच्यन्ते । ततो गीतविधिः, उत्थापना, परिवर्तनं, नान्दी, शुष्कावकृष्टा, रङ्गद्वारं, चारी, महाचारी, त्रिपातं, प्ररोच नाचेति दश बहिर्यवनिकाङ्गानीत्युच्यन्ते । अन्तर्येवनेिकाङ्गानां दृष्टार्थ एव प्रोग: तान्यन्तरेण प्रयोगंस्यैवासंपतैः। बहिर्यवनि काङ्गान्यपि दशदृष्टफलान्येव। तथाहेि गीतकवर्धमानान्युपजीव्य