पृष्ठम्:भरतकोशः-२.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फल वामहस्तेन धृत्वा शिरसि दक्षिणम्। करं लताक कृत्वा संहतस्थानके स्थितम् । यवन्याः परतः पात्रं सौष्ठवेन विराजितम् । समश्रुतिं वादयित्वा मेलापं बृन्दकेन च । ततो यवनिकां दूरीकृत्वा रङ्गे समागतम् परिवृत्य लताहस्तं कृत्वाप्रतलसञ्चशै । पादौ पाटाक्षरैतत्रालापं कुर्यान्भनोहरम् । बङ्गालदेशभाषायां गीर्वाण्या भाषयापि च । ललिताक्षरबद्धानि पञ्चखण्डानि सप्त च । भिन्नतालैरुपेतानि सचच्काराणि तानि वै । गीयन्ते गायकैस्सम्यक् गतिभेद्युतानि च । अझेपालैश्च हतैश्च पदभावं प्रदर्शयन् । मध्ये मध्ये पिलमूरूकईभूरूकलासकाः। प्राह्यास्सगतिमानेन पात्रेण सुन्दरेण धै । साभोगै नृत्यते तच बङ्गालीकट्टरं शुभम् । दङ्गलिका-राग मध्यमर्पभौ तारै मपौ स्फुरणसंयुतौ। धैवतो दीर्घतां याति यन्न बङ्गालिका च सा । मध्यमर्षभोदींघ ग्रहांशन्यासधवता। भिन्नपङ्कजोद्भवा भाषा बङ्गाली मंन्द्रधैवता। गापन्यासा सदा गेया परमुदीपने बुधैः। --मेलराग बङ्गाली रिधीना स्यात् मतीव्रतरसंयुता। नितीश्रेणापि संयुक्ता सस्वरोत्थितमूर्छन ॥ रंग पश्चमांशाग्रहन्यासा षड्जोत्था मध्यमावधेि। अपन्यासस्तु िरपभः पूर्णा बङ्गालिकाभिधा। सप्तस्वरा तु रुचिरा बङ्गाली पञ्चमांशसंयुक्ता। (गति) मध्यमतस्तारा रिषभपन्यांसलक्षणोपेता।

अहोभिल ४१४ नान्यः रिधहीना च विज्ञेया मूर्छना प्रथमा मता । पूर्णा च मवयोपेता कलिनाथेन भापिता । बङ्गालीदशा-राग मध्यमार्पभबाहुल्या मन्द्रधवतभूपिता संपूर्णा भिन्नपङ्कजोत्था बाङ्गाली गीयते बुधैः ।। बङ्गालीरागध्यानम् क्रक्षानिवेशितकरण्डंधरा तपस्-ि न्युद्यतूिशलपरिमण्डितवामहस्ता। भस्मोज्ज्वल निबिडबद्धजटाकलापा बङ्गालिकेत्यभिहिता तरुणार्कवर्णा। सिन्दूरशोभिसीमन्ता वेष्टिताङ्गी सुवाससा । संस्फुरत्कम्बुवलया बङ्गाली सोन्नतस्तना ॥ बदरीवसन्तः--मेलरागः (लताङ्गीमेलजन्यः) (आ) स रि ग म नि स (अव) स नि ध प ध नि ध म ग रि ग म ग स बद्धा-चारी जङ्गास्वस्तिकतां यत्र प्राप्तयोः पादयोर्मिथ । ऊरुद्वयस्य वलनं सा बद्धेत्यभिधीयते । अथवा स्वस्तिकं मुक्त्वा तदप्रेमण्डलभ्रमम् । कुर्वन्तावूरुवलनं विधाय स्वरवपार्श्वयोः। चरणौ यदि तिष्ठतां सा च बद्धा प्रकीर्तिता ।। बद्धापणस्तु कथितो लक्ष्योरूथ् प्लुतं लघुः।