पृष्ठम्:भरतकोशः-२.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परा

7

शकटास्यालातकभ्रमरनिकुट्टककरिहस्तकटछेिन्नानां षण्णां परावृत्तला. देशीचारी पश्चादुतानितलः स्पृशन्नेव महीतलम्। बहिश्चेत्प्रसृतः पादः परावृत्तला भवेत् । पञ्धाता परावृत्ता परावृत्ता तु कार्या स्यादुदणुतौ दर्दूरासने । पश्चाद्यान्ती परावृत्ता भूमौ जानुनिपतिते । वामतः पितृकार्ये स्माद्भ्यतो वेदकर्मणि।। पर्यायेण बहूनां यत्र प्रतियोगिनां कथाकुशलैः। श्रूयन्ते शूद्रकवजिगीषुभिः परिकथा सातु । यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः । सत ईषद्विस्तार्यते इति परेिकरः । समुत्पन्नेऽर्थे यदार्थानां बाहुल्यं स परिकरः उपक्षिप्तार्थस्य सुष्ठ विशेधवचनैरल्पविस्तारणं परिकरः। घथा-युष्मच्छासनलङ्कनेति वेणीसंहारे समुत्पन्नाथै परिज्ञाय इहानयनमित्यर्थः । परिक्रमे तद्वन्द्वं यगणस्तदनन्तरम्। परिझान्तम्-नृतकरणम् स्वस्थं शिरोऽधोगतं स्यात्करः पुष्पपुटाङ्खयः। करुणा दृक् तथा चारी तत्परिछान्तमीरिसम्। सोमेश्वरः रामचन्द्रः । जगदेकः अत्र स्वस्थं स्थानं । करुणा गतिः । मृदुप्रचार करुणा नासान्द्रष्टिः समा तथा। समपादप्रचारा च करुणागतिरीरिता । भास्वरजातिनाटके चतुर्थस्सन्धिः । पणवैश्छादितं यत्र वाद्यमल्पमृदङ्गजम्। सुविभक्ताक्षरपदं परिक्षिप्तः स उच्यते । गुणभूतो मृदङ्गः स्यात्प्रधानं पणवेो भवेत्। परितो मुरजःक्षेपात्परिक्षेपो भवेत्तदा। वाद्यकार पणवश्छालेितं यत्र वाद्यमल्पमृदङ्गजम् । सुविभक्ताक्षरपदै परिक्षिप्तस्स उच्यते । परिगूहनम्-निर्वहणसन्ध्यङ्गम् अद्रुताप्तिः परिगूहनम्- विस्मयथायिभावात्मकस्य अद्रुत रसस्य प्राप्तिरुपगूहनम्। यथा- रामाभ्युदये रामेण प्रत्याख्याता सीता ज्वलनं प्रविष्टा नेपथ्ये कलकलानन्तरं सीतामादाय वह्निः भरतः | प्रविशति। आश्चर्यमाश्चर्यमिति। सर्वजनवाक्यमबुतप्राप्तिसूचकम्। इदमङ्गं भरत उपगूहनमाह । परिचरणम्--संगीतभृङ्गाराङ्गम् आगतानामनुरागवृद्धये प्रसादनात्संवाहनादिविधिः परि चरणम् । भरतः परिचारिका छलशय्यासनायुक्ता तदा व्यजनकर्मणि संवाहने च गन्धे च तथा चैव प्रसाधने ।। तथाभरणसंयोगे भालासङ्गथनेषु च। विज्ञेया नामतस्सातु नृपतेः परिचारिका ।। परिच्छिन्नः---अङ्गहार समनखछिन्नसंभ्रान्तभ्रमरार्धसूच्यतिक्रान्तभुजङ्गत्रासितकरेि हस्तकटीछिन्नानां नवानां करणानां प्रयोगे परिछिन्नाङ्गहारः।