पृष्ठम्:भरतकोशः-२.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैलावलीगध्यम् ६५४ वेष्टनम्-पादपाटः वेष्टनं स्यारिस्थतस्याद्रेः पादेनान्येन वेष्टनात्। द्वायूर्वप्ररित कृत्वा द्वितीये रमेण च । ग्रहं स्पृष्ट परं वोन तृतीयं च प्रकम्पयेत् । ग्राह्याधस्यं प्रहं चापि वादयेच मुहुर्मुहुः। कम्पयि तृतीयं चेत्तद्धस्यं विलम्बयेत् ।। ईषद्विलम्क्ष्य तदनु वरं पृष्टा द्वितीयकम्। ग्रहे यदा भवेल्यास वेळावल्यास्तदा भवेत् । स्वस्थानमद्य वंशेषु तृतीयोऽस्या प्रहो मतः ॥ वेष्टिमः-पुस्तः वेष्टिते चैव यद्रुपं वेष्टिभस्स तु संज्ञितः । वेलावलीरागध्यानम् विधाय सङ्गतमियं प्रियेण हेफ्रोल्लसद्भषणमुद्वहन्ती स्मरं स्मरन्ती स्मरकामिनीभा वेलावली श्यामतनुर्विभाति वेसराडबः-रागः धडजमध्यमजात्यऽसौ सृग्रं वेसरषांडबः प्रहेंऽशे मध्यमां ग्यासे काकरयन्तरसंयुतः ।। साधरोही प्रसन्नन्तो मध्यमादिकमूर्छना। संपूर्ण लक्षितश्चायमेवं वेसरश्नाडबः । सीतदीक्षां दयितस्य द्त्व वितन्वती भूषणमङ्गयष्टेः। हु: स्मरन्ती स्मरमिष्टदैवं वेलावली नीलसरोजकान्तिः । श्रीकृष्ठ: सध्यमांशो मध्यमन्तो हितिघरवर्जितः। शुद्धषड्जविधायुक्तो विष्णुकारण (दैवतः) ॥ षड्जस्वरस्य संवदत् तस्य न्यासांशयोगतः । शृङ्गारे षड्जमध्यायां ज्ञेयो वेसरषाडघः ॥ नान्यः मध्यमांशस्तदन्तश्च षड्जमध्यसमुद्भवः। द्विश्रुतिस्वरहीनश्च भवेद्वेसरषाडबः । कृदयपः। अश्या वेळहरी, वेलचालीति च नामनी दृश्येते । पीठस्थिताया निजनायिकायाः सभीप्रदेशे जलपात्रधारिणीम् । चित्राम्बरां निम्नगताङ्गरेखां वेळाहुरीं मे मनसा स्मरामि ॥ रागसागरः अध्यमांशग्रहन्यासः षड्जमध्यमिकभवः । द्विश्रुतिस्वरहीनोऽपि काकल्यन्तरसंयुतः ।। वैसरषाडवो रागो मतङ्गमुनिदर्शितः वेङ्कितभ्रमरी-अमरी चरणौ स्वस्तिकीकुर्वन् परितो वेल्लयन् करौ । अभ्येद्यत्न च तामहुः वेल्लितभ्रमी बुधाः । वैकुण्ठः-गीतालङ्कारः (नसारुकभेदः द्रतद्वन्द्वं गुरुद्वन्द्वं भवेत्ताले मुकुन्द्धे । अनेन गेयो वैकुण्ठो हृद्यो वैकुण्ठको भवेत् ॥ वेषभीत्यपराश्रयि--नमः वेषावलोकनोत्पन्नमील्या यत्र रसान्तरम् । यातेि नर्म तदेवात्र वेषभीयपराश्नथि । लासः-चालकः विधाय कुठनं पूर्वं वामदक्षिणपार्श्वयोः । पश्चाद्विविक्षु विलुठन् कुरुते चेद्गतागतम् । एकः करस्तथान्योऽपि पर्यायेण भवेद्यदि । वैकुण्ठकबिलासाख्याळहस्तद्विदां मतः ॥ वेषव्यतिकरम्–नर्म नैषध्यसंविधानेन प्रणथावेशभाषणम् । करोति यत्तद्देवान्न वेषव्यतिकरं स्मृतम्। अयं चालकः अशोककलिनथाभ्यां “कुण्डलिचार’ इति पठितः, लक्षणं तु समानमेव ।