पृष्ठम्:भरतकोशः-२.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्व यथा स्थायेिस्खरे न्यासः स्वस्थानं प्रथमं तदा। स्थायिनो तृतीयं कम्पितस्वरम्। भध्यमात्कृत्वा चतुर्थे पञ्चमं चैव चतुर्थे च द्वितीयकम्। कृत्वा अहे न्यस्यते चेत्स्वस्थानं स्यादुद्वितीयकम् । स्थायेिस्वराचतुर्थे च समावृत्य स्वरं ततः । स्थायिनं तत्परं कृत्वा तुरीयस्वरमेत्य च पञ्चमं तु विलम्ब्याथ वादयेत्षष्टपञ्चमौ। द्वितीयं च स्वरं कृत्वा स्थायिन्यासेो थदा भवेत्। तदा तृतीयं स्थानं कथितं रागवेदिभिः । स्थायेिनं वादयित्वाथ द्वितीयं व तुरीयकम् ।। पञ्चमं सप्तमं कृत्वा अष्टमं तु विलम्बयेत् । द्वितीयं तत्परं चोक्त्वा द्वितीयं सप्तमं पुनः । पञ्चमं च चतुर्थे च द्वितीयं प्राप्य च क्रमात्। ग्रहे न्यासान्मध्यमादेः स्वस्थानं स्याच्चतुर्थकम् । वंशेषु मुद्रितस्तद्भः मध्यमादेहः स्मृतः । देमः प्रथमे स्वस्थाने तृतीये कम्पिते इत्यत्र विवादित्वाद्वैवतस्य वादने क्रियमाणे रागहानिर्भवत्येव । अतः तं विहाय तदुत्तरो निषादोऽन्न तृतीयधत्वेन अह्यः । यथाहुः असंभवे पूर्वपूर्वखरस्य तु परंपरम् क्रमेण स्वरमारोहेत्सर्वरागेष्विति स्थितिः । तस्मान्निषाद् एव तृतीयस्वर इत्यूह्यः । द्वितीयस्वस्थाने तृतीयं कम्पितत्वरं । चतुर्थ इत्यत्र तृतीय | चतुर्थस्वरौ उक्तवचनान्निषाद् एव । तृतीयत्वं निषादस्य लक्ष्णया आश्चितम् । चतुर्थे तु मुख्यत्वेन । एवं सर्वत्रोह्यम् । िववादिस्वरो वज्र्यः । वंशेष्विति । सर्ववंशेष्वित्यर्थः। यथा- यस्मिन् वंशे यो मुद्रितस्वरो भवति, यथा अष्टादशाङ्गुले वंशे सप्तसु स्वररन्धेषु मुद्रितेषु षड्जो जायते। स तन्न मुद्रित उच्यते । तथैव कला निधिवंशे मन्द्रर्षभो मुद्रितः । मनुवंशे भन्द्रगान्धारः । स एव राग मध्यमादिर्मग्रहान्तो मध्यमग्रामगोचरः। अर्य सायं तु गातव्यः शृङ्गारे रिधवर्जितः । मध्यमादिश्ध रागाङ्गी प्रहांशन्यासमध्यमः । मध्यमग्रामसंभूतो मध्यमांशाग्रहान्वित मध्यमादिरिति ख्यातः श्रृङ्गारे विनियुज्यते मध्यमग्रामरागाङ्गे मध्यमादिः प्रगीयते । षड्जमध्यमयोस्तारं मन्द्रवान् मध्यमेो अहे । मध्यमेो वा धैवतो वा न्यासेनांशेन मध्यमः । प्रीष्मस्य प्रथमे यापे श्रृङ्गारे स्यादसौ रसे । गायक: प्राक् प्रयुञ्ज्ये मं संपूर्ण वैणिका अपि। इष्टं प्रयुञ्जते रागं तेनासौ प्राडूनिवेशित मध्यमादौ गधौ न स्तौ मूर्छनामध्यमादिका तत्र त्वैशस्वराः शेोक्ताः रिमनयो मुनीश्वरैः । रिमनयः । रिषभमध्यमनिषादाः। अय वसन्तभरवज्ञः स्यात् । –राग भध्यमग्राभसंभूता मस्यमांशग्रहान्विता। भध्यमादिरिति ख्याता श्रृङ्गारे विनियुज्यते। एतामेव प्रयुज्यादौ वैणिका वांशेिकास्तथा। पश्चादमितं गानं प्रकुर्वन्ति विचक्षणाः ॥ जगदे मध्यमादिश्च रागाङ्गा प्रहांशन्यासमध्यमा । सप्तस्वरैस्तु गातव्या मध्थभादिकमूर्छनां संपूर्णा कथिता तजै रिधहीनाकचिन्मता। म प ध नि स गि म, मध्यमांशग्रहोपेता मध्यमग्राभसम्भवा मध्यमादिः अयोक्तव्या गीतादौ वैणिकादिभिः । स्यान्मध्यमग्रामभवाभिरामा सङ्गीयते पूर्वमभीष्टरागात् साक्षार्मिध्यमादिस्यान्मध्यमप्रामसंभवा । मध्यमांशग्रहन्यासा गीयते प्रथमं बुधैः ॥