पृष्ठम्:भरतकोशः-२.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्ष्यतालनिबद्धो यः स मठ्य इति कीर्तितः। भटयताले ध्रुवत्वादावक्षरद्वयसम्मित । ततो लघू द्वौ विज्ञेयौ चतुरक्षरसम्मितौ । आहत्य मठ्धतालोऽयं दशाक्षरमितः स्मृतः । सरिगरिसरिसरिगम, रिगमगरिसरिगमप । मष्धताले ध्रुवत्वादौ अक्षरद्वयसम्मितः। ततो लघू द्वौ विज्ञेयौ चतुरश्चरसम्मितौ। आहत्य पट्टथतालोऽयं दशाक्षरमितः स्मृतः । मणिकुम्भकः-देशीतालः तगणो दत्रयं गश्च नद्वैयं च गुरुर्लघुः । प्लुतश्चेति क्रमाद्यत्र स ताले मणिकुम्भकः ।। मट्टधकः, मण्ठकः, मट्टयः, मट्टः, मण्ठः इत्यादिभीरूपैरयं शब्दो दृश्यते । ५0; मात्राः मणिकुल्या-श्रव्यकाव्यम् मणिकुलयायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु । पश्चात्प्रकाशते सा मणेिकुल्या मत्स्यहसितादि । वेङ्कटमखी टा मणिकुछषायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु। पश्चात्प्रकाश्यते या सा मणिकुल्यापि मलि का ज्ञेया । शेिष्ट मत्तलिकाशद्वे द्रष्टव्यम्। शारदातनयः मणिगणनिकरः-ध्रुवावृतम् यदि खलु चरणविधौ लघुवसुगणकमिदम् । भवति हि खलु बृहती, मणिगणनिकरकृता । अष्टौ द्रुता गुरुश्चान्ते यश्रजा मणिमालिका। नायिकासु प्रयोक्तव्या रसरागौ च पूर्ववत्। उडुगणकुसुमवती पूर्ववदिति । अविचालितावत् शृङ्गारो रसः । मालवकैशिको रागः। ४५२ | आधुञ्चितो निकुछचश्च भ्रमितश्च समस्तथा । चतुधौ मणिबन्धोऽथ नामतः कथितो मया निकुङ्गाधुञ्चितौ स्यातां चलश्च भ्रमितरसभ: । एवं पञ्चविधो धीरैर्मणिवन्धः प्रकीर्तितः । मणिबन्धगतागतम्-चालक एकस्य मणिबन्धे तु विलुठन्नपरः करः अन्तर्बहिर्मुसलकैः स्थायं स्थायं गतागतम्। (कथितं वेमभूपेन) मणिबन्धगतागतम् । चालक द्विगुणालुठितावैसपर्यन्तेऽञ्चितकूर्परौ करौ ततः परं कृत्वा कूर्परस्वस्तिकान्वितौ । तथैव लोलयित्वांसौ करं तत्रोपरि स्थितम् । विधाय मुष्टिरूपेण त्वरया तन्निवेशयेत् करेऽन्यस्मिन्विलुठति व्यस्रभावमुपेयुषि। भ्रमयेन्मण्डलावृत्या पार्श्वयोरपरं करम् ।। तथैव गुष्टिहस्तस्य संक्षेपो विलासितः । क्रियते चेत्तदाचष्ट सणिबन्धासिकर्षणम् । भणिमण्डनम्-कर्णभूषणम् एवं बहिष्टमुं यन्मध्ये वत्रैश्च भूषितम्। मध्ये माणिकसंयुक्तं मणिमण्डनमुच्यते। मणिमञ्जरी-मेलरागः (खरहरप्रियामेलजन्यः) ( आ) स रि ग म प ध नेि स (अव) स नि ध प म प ध प म रि ग म ग स मणिरङ्ग-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि म प नि स (अव) स नि प म ग रेि स. मणिवान्-मेलरागः (ऋषभप्रियामेलजन्यः) (अ) स रेि ग म प ध नि स (अव) स नि पध म ग रिस सोमेश्वर अशोः सोमेश्वरः