पृष्ठम्:भरतकोशः-२.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलम्बितो द्रुतश्रेति तथैवातविलम्बितः। त्रिधा भवेद् मण्ठो मण्ठतालेन गीयते । नेतृनामाङ्किताभोगो यो भवेत्सविलम्बितः। द्रतो द्रतेन तालेन गेयो मण्ठश्च नामनि ।। उद्वाहो ध्रुवपदः स्यादाभोगस्तदनन्तरम्। नियमस्त्रिविधो ज्ञेयो मयकस्य विचक्षणैः। जयप्रयः कलापश्च कमलस्सुन्दरस्तथा । वलो मङ्गलश्चेति षडेते मध्यकाः स्मृताः। मण्टुिका-देशीताल भण्ठिका लैंौ द्रतद्वन्द्वे अळङ्करैर्निबद्धेो यः प्रसन्नादिपुरस्सरं उपमाभिश्च बह्वीभिः मण्डितो मण्डतो भवेत् । काव्यजैगीतसंभूतयेऽलङ्कारैरिच्यते अलङ्कारभवो यस्मात् तस्मात्प्रोक्तस्तु मण्डनः । गीतालङ्कारमार्गेण गीतमप्युपलक्षितम् उपमाधरलङ्कारगतेि न्यस्य पदावलिम् यत्र गायति गीतज्ञः स भवेन्मण्डनाभिधः । , ८ त्रिभिश्चतुर्भिर्चा खण्डैर्मण्डलं पण्डितैस्मृतम्। स्थानकम् एकतालान्तरौ पादौ यशपक्षस्थितौ भुवि । ऊरुनिषण्णौ गगने सार्धतांलद्वयान्तरे । धरण्यः कटितुल्यं च स्यातां द्वे जानुनी अपि यत्रैतन्मण्डलं नाम स्थानं वासवदैवतम् । चतुस्तालान्तरावत्र चरणौ केचिदूचिरे । प्रयोगो वज्रचापादैः तथा वारणवाहने ताक्ष्र्यादिबीक्षणे चास्य विनियोगं विदुर्बुधाः ॥ मण्डलंगतिः–बाह सर्वतो भ्रमणाद्यस्यात् स मण्डला भ्रर्मणे तु गदाखङ्गाद्यायुधानां प्रकीर्तिता । '. हरेिप हिरपालः अशोकः चतुरश्रे स्थानकं च प्रसृतौ च पताकफौ। पार्श्वयोर्वामशिखरं हृदि दमै पुरः पुनः । त्रिपताकं करें कृत्वा दक्ष्मूर्वकटीसमम्। पादं प्रसारयेदग्रे दक्षिणावर्ततो भ्रमेत् । मण्डलभ्रमरी सा स्यादित हनुमन्मते स्वस्तिौ तु करौ कृत्वा प्राड्युस्रोध्र्वतलैः समौ। तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । चतुरस्रौ करौ कृत्वा विदधद्विच्यवां तत । उद्वेष्टितक्रियापूर्वमूध्र्वमण्डलिनौ करौ । विधाय स्वस्तिकौ कुर्याद्दल स्थानं च भण्डलम् मण्डलस्वस्तिकं तस्यात्प्रसिद्धार्थावलेोकने चारीं तु विच्यवां कृत्वा चतुरस्रौ करौ तत उद्वेष्टित प्रयुज्य स्वस्तिकौ यत्र कुर्यात्स्थानं तु मण्डलम् मण्डलस्वस्तिकमेिदै प्रसिद्धार्थनिरीक्षणे । विलासपरिसंख्याने प्रत्यक्षेऽर्थे भवेदिदम्। मृण्डल-ः षड्जस्य द्वितीया श्रुति एकस्मिन् लुठिते हस्ते पूर्वोक्तस्थानगामिनी। अन्यः करो मुष्टिरूपे विलुठ ऊध्र्वभार्जवात्॥ ततस्तथैव पर्यायात्पाश्र्वयोश्च गतागत किञ्चित्पावत्समानीतः पुरतोऽपि प्रसारितः । एवं पाण्योस्तु पर्यायात्क्रिया चेन्मण्डलाप्रकाम् प्रातिलोम्यानुलोम्याभ्यां आलोल्येते भुजौ क्रमात्। मण्डलांभरणं प्राह तत्सङ्गामधनञ्जयः ।।