पृष्ठम्:भरतकोशः-२.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीरोदात्तश्च नायकः । तत्र भारतीवृत्तिः तदनुरूपा। स्वरूपाङ्ग त्वात् । तथाहि या वाक्प्रधानात् नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ्ययुक्ता स्यनामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत् वृति : । तदङ्गानि प्ररोचना, प्रस्तावना, वीथी, प्रहसनमिति ! सा तु वाक्प्रधानेत्यनेन श्रुतिस्मृत्युक्तविधिवाक्यानामवश्य विधेयतां प्रतिपादयति । नृवरप्रयोज्येत्यनेनाधिकारिणो निर्दिशति । रूी वर्जितेत्यनेनानधिकारिणेो निरयति । संस्कृतपाठ्ययुक्तेत्यने नान्तर्वेद्यां न ग्लेच्छितव्यमित्यभिधत्ते । अङ्गेषु प्ररोचनयार्थ - वाद द्योतयति । वक्तव्यार्थे प्रशंसापरं हि वचः प्ररोचना ! प्रस्ता- वनयेतिकर्तव्यताक्रमं बोधयति । प्रस्तुतवस्तूपपाट्नावसरसूचकं हि वाक्यं प्रस्तावना । वीथ्यां परिप्रश्रेोत्तरप्रत्युत्तरादिभिरनुवाद विधानाद्विपर्ययाज्ञानादीन् संशयादीनपनयति । उद्भात्यकादीनां अङ्गानां हि प्रवृत्तिपरिपाटी वीथी। प्रहसनेन तु स्वधर्मान्नचलेि सव्यं नियमयति । स्वधर्मचलितानां हि तापसादीनां उपहासपरं बचःप्रहसनम् । सेवं भारती वृत्तिः चतुरङ्गा धर्मशृङ्गारस्याङ्गम् या वाकूप्रधाना पुरुषप्रयोज्या खीवर्जिता संस्कृतपाठ्ययुक्ता स्नामधेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः । ४३४ स्रीवर्जितेति । कैशिकीप्राधान्यावकाशं गमयति । संस्कृतेति वचसा भाकृतपाध्यलालित्यात्कैशिकीभवश्यमाक्षिपेदिति सूच यति । भरतैरिति । नटैः, स्तो वैशकरं नाभधेयं येषां भरत सन्तानत्वात्तद्धिते भरता अभिनवः सर्वश्रूपकगामिन्या मुखप्ररोचनोत्थिता । प्रायस्संस्कृतनिश्शेषरसाढ्या-वाचेि भारती । सर्वरूपकेष्वभिनेयानभिनेयेषु गमनशीलादिप्राथस्तन्मयत्वा द्वर्णनाय आमुखप्ररोचनयोरुत्थितः प्रायो बाहुल्येन संस्कृतेन सर्वरसैश्च दीप्ता वाचि वाग्व्यापारविषये वाग्व्यापारात्मिका एकीभावस्तु सर्वासां भारत्यामेव दृश्यते । प्ररोचनाऽऽसुखं चैव वीथी प्रहसनं तथा। सागरन् मः गान्धारग्रामे नारदीयताः भार्गवाङ्कः-देशीताल पताभ्यां भार्गवाङ्कः स्यात् । अङ्गजोऽनुभावः वागाङ्गमुखरागश्च सत्वनाभिनयेन च कवेरन्तर्गतं भावं भावयन्भाव उच्यते । देहात्मक भवेत्सत्त्व सत्वाद्भावः समुत्थितः। भावात्समुत्थितो हाधेो हावाद्वेला समुन्थिता । हावाद्भाव इति कीर्तिधरादयः। भरतवचनात्क्रमेणैतेषां हेतुभावः । तथापि परम्परया तीव्र तमसत्वस्याङ्गस्यव करणत्वादङ्गजा इत्युक्तः । एवं च परस्पर समुत्थितत्वेऽप्यनीषामङ्गजत्वमेव ! यथाहि-कुमारीशरीरे प्रौढ तरकुमार्यन्तरगतद्देलावलोकने हावोद्भवो भावश्चेदुलासितपूर्वः अन्यथा अनुभावलैवेोद्भवः। एवं भावेऽपि दृष्ट हावो हेला वा । यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा इलातोऽपि हेला। एवं हावाद्वावः, भावाद्भाव इत्यपि वाच्यम्। एवं पर कीयभावादिस्मरणात्सरसकाव्यादेरपि हेलादीनां योगो भवति । ऐतद्न्योन्यसमुत्थितत्वम् । तत्राङ्गस्याल्पो विकारोऽन्तर्गतघास नात्मतया वर्तमानं रत्याख्यै भावं भावयन् सूचयन् भावः । यथा-दृष्टिस्सा रसतामित्यादि । वित्तस्याविकृतेस्सत्वं विकृतेः कारणे सति । ततोऽल्पा विकृतिर्भावो वीजस्यादिविकारवत् ततो मनोविकारस्थ भावत्वं प्रकटीकृतम्। (वागादिभिः) भावयन्बहिरन्तस्थानर्थान्भाव उदाहृतः । अख चित्तशब्दो मनोवाची । नचान्तःकरणपरिगणितविक् वाची। निर्विकारस्य बीजस्ादिमो विकारः उच्छूनावस्था। चित्तस्य प्रथमः परिस्पन्दी भाव