पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 212 ]

अर्जुन उवाच ।

स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवंति
सर्वे नमस्यंति च सिद्धसंघाः ॥ ३६ ॥

Arjuna said :

 Hrishikesha! in Thy magnificence Rightly the world rejoiceth, hymning Thee; The Rakshasas to every quarter fly In fear ; the hosts of Siddhas prostrate fall.  (36)

 स्थाने in (the right) place (rightly); हृषीकेश O Hrishikesha ; तव Thy; प्रकीर्त्या by (singing) thy fame ; जगत् the world ; प्रहष्यति rejoices ; अनुरज्यते is pleased ; च and ; रक्षांसि the Rakshasas; भीतानि terrified ; दिशः to the quarters ; द्रवंति fly; सर्वे all; नमस्यति prostrate; च and ; सिद्धसंघाः- सिद्धानाम् संघाः of Siddhas, the hosts.

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनंत देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ॥ ३७॥