पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५२ ब्राह्मस्फुटसिद्धान्ते तद्धरश्च=ह । अथ यथाऽधिकागूतद्धाराभ्यामालापो घटते तथा कल्पितं राशि मानम्=हा, का+-शे, । इदमूनागूहारेण भक्त लब्धं नीलकं तद्गुणितहरस्तच्छेष युतो जातः पूर्वराशिसमः । ह. नी+-शे=ह, का+-शे, । ह, का + (शे,-शे) समशोधनादिना नीलकमानमभिन्नम्= नी= अत्र ह१, हर भाज्यहाराभ्यां यदि कुट्टकक्रिया क्रियते तदा यद्राशियुग्मं स्यात् तत्रा धरो राशिरेवाचार्यस्यागूान्तः स ह अनेनोनागूहरेण तष्टः शेषं कालकमानं ‘ते भाज्यभाजकमाने भवतः' इति भास्करबीजेन कालकमानमूनागूहराल्पं जातं तद धिकागूहारेण हतं तच्छेषयुतं राशिमानं स्यादिति । अथ परमं कालकमानम्=ह. १ । इद-ह, मनेन गुणं शे, युतं जातम्=ह, ह-ह.+-शे,=ह, ह (ह,-शे,) । अत्र प्रश्नानुसारेण ह,>शे, । अत ह,–शे, इदं धनात्मकं तेन पूर्वागतं राशिमानं सर्वदा-ह, ह१ ऽस्मादल्पमतश्छेदवधहरेण भक्त राशिमानं शेष राशि मानसममेवेत्युपपन्नं छेदवधस्य भवत्यगृमिति ।। ३-५ ।। वि. भा-कश्चित् भाज्यः केनचिद्धरेण भक्तोऽयं शेषः स एव भाज्योऽपरेण हरेण भक्तश्चायं शेष इति हरद्वयं शेषद्वयं चोक्त्वा स भाज्यः क इति प्रश्ने जायमाने अधिकशेषसम्बन्धिहरमल्पशेषसम्बन्धिहरेण विभज्यावशेषं परस्परं विभजेत्। अयमर्थः-अधिकशेष हरेऽल्पशेषहरेण भक्त यच्छेषं तेनाल्पशेषहरे भक्त यच्छेषं तेन प्रथम शेषे भक्त यच्छेषं तेन द्वितीयशेषं भजेदिति क्रिया वारंवारं कार्या फलानि चाधोऽधः स्थाप्यानि । एवमभीष्टं शेषं तथा केनापीष्टेन गुणितं यथा शेषयोरन्तरेण युतं तद्धरेणोपान्तिमशेषेण भक्त शुध्यति । एवं सति स गुणकः पूर्वस्थापितफलानामधः स्थाप्यः । लब्धं च गुणकस्याधः स्थाप्यम् । ततोऽन्त्यात्कर्म कर्तव्यम् । स्वोध्र्व उपान्त्यगुणोऽन्त्ययुतस्तदन्त्यं त्यजेत् । एवमन्ये य ऊध्र्वराशिः स हीनशेषसम्बन्धिहरेण भक्तो यच्छेषं तदधिकशेषेण गुणितं—अधिकशेषयुतं तदा स राशिर्भवति । स एव छेदवधस्याग्र' भवतीत्यस्याग्रिमसूत्रेण सम्बन्धः । अत्रोदाहरणं म. म. सुधाकरद्विवेद्युक्तम् । चतुस्त्रिशद्धतोद्वयग्रः पङ्क्तयग्रो विश्वभाजितः । तं राशि शीघ्रमाचक्ष्व यदि जानासि कुट्टकम् । अत्र ३४ हरस्य शेषम्=२ । तथा १३ हरस्य शेषम्=१० अतोऽधिकशेषहरः=१३ । अल्पशेषहरः=३४ । अनेनाधिकशेषहरे भक्त शेषम् =१३, ततः परस्परभजनेन जाता वल्ली उपान्तिमेन स्वोध्र्वे हतेऽन्त्येन युते तदन्त्यं