पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६४२ ब्राह्मस्फुटसिद्धान्तः प्रमाणं भिन्नं भवतीत्यत्राप्येकवक्यतां योजयति भूछायाव्याससमः स्थितः शशिग्रहणे । राहुश्छादयतींदु सूर्यग्रहणेऽ र्कमिन्दुसमः ॥४६॥ वास०-गतार्थेयमार्या । अथैवं कश्चिद्भणंत महाप्रमाणो राहुभूछाया चन्द्रप्रमाणाभ्यां यदधिकं तत्किमिति नोपलभ्यते, इति संप्रत्याह यत्तदधिकं तमोमयरहुव्यासस्य सूर्यदृष्टत्वम् । न पश्यति भूछाउँदौ व्याससमोऽस्माद्भवति राहुः ॥४७॥ वास०-निष्प्रयोजनेयं गतार्था च इदानीमेकवाक्यतापक्षमुपसंहरति भूछयेन्दुमतो हि ग्रहणं छादयति नाकं मदुर्वा । तत्स्थस्तद्धाससमो राहुश्छादयति शशिसूम ॥४८॥ वासo-स्पष्टार्थेयमार्या । ग्रह स्वरूप वासना । इदानीं गोलबन्धं प्रदर्शयति तत्रादौ सममण्डलयाम्योत्तर क्षितिजमण्डलानां विन्यासार्थमार्यामाह प्राच्यपरं सममण्डलमन्यद्याम्योत्तरं क्षितिजमन्यत् । परिकरवत्तन्मध्ये भूगोलस्तत्स्थित द्रष्टुः ।।४en वास०-प्राच्यपरमुन्मण्डलं तत्सममण्डलमन्यद्यामोत्तरं द्वितीयं दक्षि- णोत्तरं तदित्यर्थःक्षितिजमन्य परिकरवद्यत्तृतीयं समपारवेस्थं मण्डलं तत्क्षिति जमुच्यते । मन्मध्ये भूगोलकाकारा सर्वतः स्थितस्य द्रष्टुरेतानि त्रीणि खगोल वृत्तान्येव कल्प्यानीत्यर्थः। तत्स्थितं द्रष्टुतित्युत्तरत्र समस्तमण्डलविन्यासे सम्बन्धो भविष्यतीति तत्र गोले स्वदेशस्थितस्य द्रष्टुः कीदृगुन्मण्डलं तत्र प्रतिपादनायार्यामाह पूर्वापरयोर्लग्नं याम्योत्तरयोनंतोन्नतं क्षितिजात् । स्वाक्षांशैरुन्मण्डलमहनिशोवृद्धिहानिकरम् ॥५०॥ वासo-पूर्वा चापरा च पूर्वपरेतयोर्लग्नं पूर्वापरयोः स्वस्ति कयो रासक्त मित्यर्थः, याम्या चोत्तरावद्याम्योत्तरे नतोन्नतं कुत इत्याह। क्षितिजादिति क्षितिजमण्डला दक्षिणखगोल स्वस्तिकान्नसूत्तरात् चोन्नतमित्यर्थः कियद्भिरक्षांशं रित्याह। स्वाक्षांशैरिति स्वदेशाक्षभागैरिति यावत् । कि तदुन्मण्डलमुद्यमण्डल