पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६४१ बास०--गतार्थं । राहुकृतं ग्रहणमेवेत्याह- राहुकृतं ग्रहणद्वयमागोपालगनादिसिद्धमिदम् । बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥४१॥ चास०-भृष्टार्थेयमार्या । अमुमेवार्थं स्मृतिवाक्यैरनुमोदयति । स्मातिषक्त' न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ । राहुग्रस्ते सूर्ये सर्वे गंगासमं तोयम् ॥४२॥ • वास--गतार्था । अत्रार्थं वेदवाक्यं प्रदर्शयति स्वर्भानुरासुरिरिनं तमसा विव्याध वेदवाक्यमिदम् । वास०-स्पष्टार्थमार्यार्धम् । ननु भूछायां चन्द्रः प्रविशति । स्वग्रहणे रवि मपि छादयति चन्द्रोऽर्कग्रहण इत्युक्तं प्राग्युक्तिमत्परित्यज्य लोकप्रसिद्धराहुकृतं ग्रहण किमित्यङ्गीक्रियते यतः प्रसिद्धिरन्यथा दृश्यते यथाशुक्लपक्षान्तरे मासो बहुष्वपि देशेषु प्रसिद्धः रवेरुपरि चन्द्रः तस्य क्षयवृद्धी दक्षशापादित्यादिना चैत द्विचार्यमाणं न सम्भवति । यदापि स्मृतिवाक्यं तद्रात्रिस्नानस्य निषेधपरम् । यच्च वैदिकं वाक्यं तत्समारोद्रीयवरोरचेतायाः श्वेतवत्सायाः पयसः श्रयण परमर्थवादतया तत्र पठ्यते । ऐतिहासिकान्यपि वाक्यानि ग्रहणफलप्रतिपादन पराणि । य एव रविचन्द्रयो खण्डतां करोति स एव तेषां राहुः गर्गादीनामपि संहिता वाक्यानि दिग्वर्णचलनादिलक्षणः शुभाशुभप्रतिपादकानि, तेषामपि यो ग्रसते स एव राहुः पुनर्यावत्पारमाथिको ग्राहः को न ज्ञायते तावत्कालग्रासप्रमाण स्थितिचलनादयो दृक्समाः कथं ज्ञातु शक्यन्ते । तस्मात्सवासनिकं यत्प्रागुक्तं तच्छोभनम् । लोकबिरुद्धोऽपि नवकृत्य इत्यतोऽर्जुमार्यार्थमाह श्रुतिसंहितास्मृतीनां भवति यथैवयं तदुक्तिरतः ॥४३॥ वास०--गतार्थमिदमार्यार्थम् । इदानीं तदैक्यमार्याद्वयेन प्रदर्शयति राहुश्छादयति प्रविशति यच्छुक्लपंचवश्यंते । भूछाया तमसोंबघीरप्रधानात्कमलजस्य ॥४४ ॥ चन्द्रोम्बुमयोधः यवग्निमथ भास्करस्य भासते । छादयति शमिततापो राहुश्छावयति तत्सवितुः ॥।४५॥ । दास-गतार्थं । आगमप्रामाण्यात्सोऽपि तत्रधः स्थो भवत्वित्यर्थं भवति नामराहोरधोवस्थितिस्तथापि रविशशिग्रहणयोर्मान तस्येकवत्कथं