पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६१६ प्रागार्यायां व्याख्याता । तथैवं स्थिते गोले सर्व प्रदर्शयेत् । अत्र च वराहमिहिरः सकृदुदितः षण्मासान् दृश्याह्न मेरुपृष्ठसंस्थानाम् । मेषादिषु षट्सु वरन् परतो दृश्यः । सदैत्यानाम् अत्रलाटश्च संवत्सरार्धममरैः सकृदुगत एव दृश्यते सूर्ये इति तथायंभटः रविवर्माधंदेवाः पश्यंत्युदितं रविं तथा प्रताः इति । दिव्यानि दिनानि रविभगण इति, यदुक्तं मध्यगतावाचायंण तदिहार्यया सार्धया प्रतिपादितं दिव्यमानं, इदानीं द्वितीयेनार्याधेन शशिमासाः पितृदिवसा इत्यस्य पितृदिव सस्य च प्रतिपादनमाह शशिगाः शशिमासर्वे पितरो भूस्था नराः स्वदिनम् ।।८।। वास०-शशिनं गच्छन्तीति शशिगाः कमिणः पितृसंज्ञिता इत्यर्थः। शशिनो मासः शशिमासः त्रिंशत्तिथयःतदर्थं पंचदशतिथयः कृष्णाष्टम्यञ्च शुल्काष्टम्यधं यावत्पितरः पश्यंति सकृदुदितं सूर्यमित्यनुवर्तते पितृदिवसः स च भूस्थाः नरा अस्मदादयः स्वदिनमिति स्वदिनम् । स्वदिनं दिनशब्देनैव सिद्धात् । स्वग्रहणं प्रतिदेशं दिक्सभेदप्रतिपादनपरं स्वोदयात्स्वास्तमयं यावन्नराः सकृदुदितं सूर्यं पश्यन्तीत्यर्थः। न त्वहोरात्रम, दृष्टविरोधात्तुल्यत्वाच । सर्वत्रैवं दिव्यपितृ- मानयोरपि तदत्र पितृदिवसोपपत्ति: अविक्षिप्ते चन्द्रे सितप्रति-दादौ भूमध्याद्यत् सूत्रं रविगोलमध्यं यावन्नीयते तच्चन्द्रगोलमध्यार्धभेदोऽपि भवति तुल्यत्वात्तयोः यत्र चन्द्रगोलोपरि सूर्यभेदः तत्र पितरस्तेषां तथा मध्याह्नकालतोऽपि चन्द्र गोलस्योपरितनमघं पश्यंति, वयमधस्तनमर्धचन्द्रगोलार्ध सूर्यभेदकेन्द्रकल्पनया पश्यामोऽन्योन्यवच्छादनेन तेन । तेन तदा वयं न मनागपि चन्द्रगोलमुपाल्- भामहे । यतोऽर्करश्मिपातवशाच्चन्द्रस्य शौक्ल्यम् उक्त च सुषुम्लः सूर्यरश्मि रिति वेदे भूगोलवत् चन्द्रगोलेऽपि षष्टिशतत्रय भागकल्पना कार्या, ततस्त्रशद्भावे न द्वादश भागाः भवन्ति । तावांश्च तिथिभोगश्चन्द्रोपरि केन्द्रातिथौ द्वादश भागा रविकेन्द्र पश्चादवलंबते । तेनैव क्रमेणास्मद्दृश्येऽधं रविरश्मिपातःतावच्चा स्माभिःसितमुपलभ्यते चन्द्रमसि एवं तावद्यावन्नवत्या,भागैः पितृणामस्तमेति । अस्माकं पुनरर्घसितो भवत्येतच्च शुल्ताष्टम्यर्चाऽतः परं पितृरात्रिरस्माकं सित- वृद्धिः पितृणां पौर्णमास्यंते अर्धरात्रः परासितवृद्धिश्चास्माकं चक्रार्धातरं ततो पररात्रक्रमेण कृष्णाष्टम्यर्थे । तेषामक्रोदयः तेनैवासितापचयेनास्माकं पुनरर्ध सिततो रात्रिनवके ततस्तेषां पूर्वाह्नक्रमेणामावास्यांतं दिनमध्यं मस्माकं च अत एव अमावस्यांतादुभयतोऽपि द्वादशकालांशा यावच्चन्द्रमा नोप लभ्यते, पौर्णमास्यां तच्च संपूऽर्कसंनिकर्षविप्रकर्षात्। ये तु प्रतिपदादि पितृदिवसादिमिच्छंति। तेषाम् सर्वमेवं न घटते, तस्मान् मासग्रहणं त्रिशतिथ्युप पललक्षणार्थम् । यथा कश्चिदाह-मासेन ग्रामादहमागत इति, न च तत्र प्रति- पदादिमासगणना तद्वदिहापि चन्द्रोपरि केन्द्र पितरः वासना प्रर्दाशतेयम्, तेषां