पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


गोलाध्यायः १६१७ गोलं विन्यस्य प्रदर्शयेत् । यावन्निरक्षदेशं तत्रोडुचक्र पूर्वापरगं ब्रुवौ क्षितिजे भवतः । निरक्षदेशं दक्षिणस्थं भूगोलार्धे देवा न पश्यंति, भूम्यर्धवत्तद्वदुत्तरस्थं दैत्या अपि एवं निरक्षादुत्तरस्था दक्षिणं ध्रुवं न पश्यंति, दक्षिणस्थाश्चोत्तरमिति । नः समा भूः स्यात्तन्मेषाद्यपमंडलाधं सदादृश्यं स्यात्, समुद्रादुत्तरस्थानां ध्रुवश्च भूम्यासक्तो न स्यादेतच्च प्रत्यक्षविरोधान्नभपंजरस्य तुच्छप्राकारतायां कल्पमानायां द्वादशस्वपिराशिषु, स्थितोऽत्रैः सदादृश्यः स्यादस्माकं । यतो मेरो व्यवधायकत्वं निराकृतं । पूर्वमेवास्माभिरथ गोलकाकारायामेव भुवि तच्छत्रा कारम्, तन्मेरुस्थानां सदादृश्यं नित्यमदृश्यं च वडवामुखवासिनां व्यवधानाद्यतः सकलमेवापमंडलं तच्छत्रं तथा लग्नादीनामवलंबकाक्षादीनां चानुपलब्धेः पापी- यानपपक्षः तस्मादभूगोलकाकारा भपंजरश्चात एव विषुवति निरक्षदेशेषु व्यासार्ध- मवलंबको मेरुवडवामुखयोर्लबकाभावःअक्षश्च निरक्षे नास्ति लंबश्च नवतिर्भागः यतो ध्रुवोन्नतिरेवाक्षः एवमन्तरेऽपि योज्यमिति । अत्र लाटाचारैः तस्मात्क्षेत्रोद्दे - शाद्यथा सर्वतो दिशम्, तथा उन्नमति भगणचक्र ’ भुवः खमयं परित्यजति। भित्वा क्षितितलमुत्तिष्ठतीव मेधः प्रकृष्टस्थः। सैवान्येषां तिष्ठत्युपरि ज्योति गुणेऽप्येवम्। एवं तावदं शभेदाद्भचक्रदर्शनभ्रमणे भेदान्प्रतिपाद्येदानीं भगवतो भास्करस्य तानेव प्रतिपादयन्नाह देवाः सव्यगमसुराः पश्यंत्यपसव्यगं रव क्षितिजे । विषुवति समपश्चिमगं निरक्षदेशे स्थिताः पुरुषाः ॥६॥ वास०–पश्यंतीति सर्वत्र योज्यम् । देवा मेरुवासिनः सव्यगं प्रदक्षिणगं असुरा वडवामुखवासिनोऽपसव्यगमप्रदक्षिणम्, कमित्याह रविं क्व ? क्षितिजे मंडले । भूम्यासक्तमिति यावत्, कदाविषुवति विषुववृत्तस्थं विषुवदिवसे इत्यर्थः समं पश्चिमगं निरक्षदेशे स्थिताः पुरुषा तत्रैव विषुवति समोपर्यधोभागगं लंकादि निरक्षदेशस्था द्रष्टारः पश्यन्ति रविमिति सूत्रार्थः । एतच्च खगोलोपर्यधः स्वस्ति कवेधयो खः शलाकाग्र प्रवेश्य गोले प्रदर्शयेत्। विषुवत्स्वस्तिके चार्कोपलक्षितं चिह्न कृत्वा भगोलं भ्रमयेत् । देवासुरप्रतिपादने निरक्षदेशप्रतिपादने च खगोलं दक्षिणोत्तरस्वस्तिकयोरथः । शलाकाग्रं कृत्वा शेषं सामान्यमिति । अत्र च लाटदेवः-दृग्वरिजे स्वे विषुवति पश्यंत्यमराः प्रदक्षिणगमर्कम् । अपसव्यगति दैत्याः समरेखस्यं बुधाश्रमिणः निरक्षदेश वासिनो बुधाश्रमिणस्तस्य, तथा च वराहमिहिरः प्रोद्यमविरमराणां भ्रमत्यजादौ कुवृत्तगः सव्यम् । उपरिष्टालंकायां प्रतिलोमश्चामरारीणाम्, इदानीमपमण्डलार्थं दर्शनात्–द्वारेण देवासुरादि वासयोः प्रतिपादनार्थंमाह-- सौम्यमपमण्डलञ्च मेषाद्य सध्यगं सदा देवाः । पश्यन्ति तुलाद्यर्थं दक्षिणमपसव्यगं दैत्याः ॥७॥ ॥