पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६१६ ब्राह्मस्फुटसिद्धान्तः भपंजरः, सोडुचक्र स्थिर एवमपि सव्यापसव्यसिद्धिः तुल्यैव, न वं, यदि भूगोल भ्रमति तद्वायसादयो न स्वं निलयं पुनरासादयेयुर्वारिमुचोऽपि नैकत्र बहु वारिमुचः स्युः तस्य तस्य प्रदेशस्याग्रतो गतत्त्वात् । भुवादयो नित्यं प्रत्यगतयः स्युः, भूगोलवेगजनितप्रभंजना क्षिप्ताः तरु शिखार्यादयोऽपि विदीर्येरन् । अत्र वाराहमिहिरः यथैव शयनाद्या नखात्पुनः स्वनिलयमुपेयुरित्यादि तस्मात् भूभ्रमति भचक्रमे च भ्रमत प्रवाहानिलाक्षिप्तम् । तथा चाचार्यवराहमिहिरः मेरोः समो परि वियत्यक्षव्योम्नि स्थितो ध्रुवोऽधोऽन्यः तत्र निबद्धा मारुता प्रवहेन भ्राम्यते भगणः । तथाचार्यभटः, उदयास्तमय निमित्तं नित्यं प्रवहेन वायुना क्षिप्त लंका समपश्चिमगो भपंजरः सग्रहोभ्रमति मेरु वडवा मुखस्थानां क्षितिजासकं एवार्य सूत्रार्थः। तथावयौ लिो सिद्धान्ते । तस्योपरि ध्रुवः खं तबद्ध पवनरश्मिभिश्च क्राम । पवनाक्षिप्तं भानामुदयास्तमिषं भ्रमति । तथा च वसिष्ठे सिद्धान्ते । तत्राग्र ग्रहनक्षत्रतारागण समावृतः। अजस्र भ्रमति व्योम्निज्योतिर्गणः प्रदक्षि णम् एतेषु सर्वनाम्ना मेरुपरामर्श इति एवं मेरू परामर्श इति एवं मेरु वडवा मुखवासिनां ध्रुवं न वक्र संस्थानभ्रमणमभिधायाधुना परिशेष देशार्थमाह अन्यत्र सर्वतो दिशमुन्नमति भपंजरो ध्र वोनमति । लंकायामुडुचक्र पूर्वापरगं ध्रुवौ क्षितिजे ।५।। वास०. –अन्यत्रान्यस्मिन् देशे मेरु वडवामुखवजिते, सर्वतोदिशं सर्वास्वपि दिक्षु उन्नमति भपंजरः क्षितिजाद्विप्रकृष्टो भवति । भानां पंजरो भपंजरः नक्षत्र चक्र विषुवन्मण्डलमित्यर्थः ध्रुवो नमति, भुवः खमध्यात्तिर्यग्भवत्युत्तरेण स्थल भागे मेरोरन्यत्र वडवामुखादेवं जलभागे लङ्कायामुडुचक्र पूर्वापरगं लंका ग्रहणं निरक्षदेशोपलक्षणार्थं तत्रोडुचक्र पूर्वा परगमुपर्यधोगमित्यर्थः। ध्र वे क्षितिजे तत्रैव निरक्षदेशे स्थितस्य द्रष्टुरुत्तरदक्षिणयोभुवो क्षितिजासंक्तौलक्षेते इत्यर्थः । अयमभिप्रायो भूगोल काकाराभपंजरमध्यस्थिता T च तदवबोधाय ध्रुवतारायां बध्नीयात्, एवं पूर्वेस्वस्तिकाद्यमकोटी रोमकार्धभेद्यपरस्वस्तिके बध्नीयादेवं दक्षिणस्वस्तिकालंका सिद्धपुराञ्चभेद्युत्तरस्वस्तिके बध्नीयात् । ततो भूगोलयोः तुल्ययोविभागकल्पनया तुल्यत्वमुपपद्यते । लघवोऽल्पे वृत्ते महति महांतो राशि भागादयः कल्पाः कल्पिताश्च भभूगोलयोः सतुल्या भवन्ति । तेन यावति राम ध्रुवादिषु वृत्तावति मेरोनिरक्षदेशे, एवं शेषेष्वपि योज्यम् । सर्वाण्येव केन्द्राणि परस्परं भभूगोलयोश्चतुर्भागे भवन्ति, चतुर्भागाश्च नवतिर्भागाः भचक्रांशानाम् । द्रष्टुश्च यत्रतत्रावस्थितस्यातिभूगोलोपरि । स च द्रष्टा भूगोलार्ध पश्यति, द्वितीय मधे भूव्यवहितं न पश्यति तेन मेरोर्यावद्भिः भूगोलाशैः कश्चिद्दक्षितो भवति, तावद्भिस्तस्य भूगोलान्गूः भुवो नमत्युत्तरेण। एवं वडवामुखादपि तावद्भिरेवां शैनरक्षदेशोपरि विषुवत्स्वस्तिकृौ भवतः एतच्च स्वदेशाक्षाने सोन्मण्डलं सध्रुवं