पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६१५ द्याधं तद्वदैत्यानां मेषतुलाद्योरादित्वं विमृबदुपलक्षणार्थं लंकासमोत्तरे......रवा वासिनां दक्षिणतो लोकोत्तरतो मेरुः यमकोटीसमुत्तरस्थानां दक्षिणतो यमकोधु त्तरतो मेरुः सिद्धपुरसमोत्तररेखास्थानां दक्षिणतः सिद्धपुरमुत्तरतो मेरुः रोमक- समोत्तरस्थामासुत्तरतो मेरुदक्षिणतो रोमकम् । मेरुस्थानां पुनः सर्वतोऽपि । सर्वा एव दिशो यतो दिक्परिकल्पना सवितृवशा यत्र विवस्वानुदेति सा प्राची । यत्रास्तमेति सा प्रतीची न तत्राथोच्यते यत्र दिनादौ प्रथमं दृश्यते सा प्राची, यत्र दिनार्थं सा दक्षिणा, यस्यामदृश्यो याति सापरा यस्यां रात्रार्थं सोत्तरा विषुवति मेरुस्थानां पुनः सकृदुदित एव। सर्वास्यपि दिक्षुपरि भ्राम्यन्ननेकशो दृश्यते । अतो दिग्विभागकल्पना । न तत्राथोच्यते यत्र दिनादौ प्रथमं दृश्यते सा प्राचो तदपि न यतः स्फुटं सौरसावनयोर्युगपद्दिनादिनं भवति । कदाचिद्भवतीति चेत् तथापि न नियते प्रदेशे, एवं मेरुवडवामुखरेखस्थानां गोलन्यासः प्रर्दशितः । तदन्तरस्थानां देशान्तरकर्मणा पूर्वापरत्वं भिद्यते । तत्प्रदर्शनायावतुल्येऽतरे भूगोलं भ्रमयेत् । यदि पूर्वेण स्वदेशस्तदा पश्चिमतः। अथ यतो परदेशस्तदा पूर्वेण भ्रमयते । शलाकाग्रनिवेशवतुल्यार्धेऽर्धममीष्टदेशे गोलविन्यासः इत्येवं दिशात्र मे तत्प्रदशतं स्वबुद्धचा कालसमसूयमिति । एवं मेरुवडवामुखस्थानां ध्रुवयोः संस्था- नमभिधायेदानीं भचक्र भ्रमणादि प्रतिपादनायाह ध्रुवयोर्बद्धे सव्यगममरारणां क्षितिजसंस्थमुदवक्रम् । अपसव्यगमसुराणां भ्रमति प्रवाहानिलाक्षिप्तम् ।४।। वास०-ध्रुवयोर्बद्धं ध्रुवतारयोर्नियमितं, सव्यं गच्छतीति सव्यगमःप्रदक्षिण गमित्यर्थः, अमराणां मेरुस्थानां क्षितिजसंस्थं क्षितिजवेशेषाज्जातं यन्मण्डलं तत्क्षितिजस् । यत्राकाशं भूम्या सहैकवद्भूतं लक्ष्यते । परितोऽपि तत्र स्थितं तदा सकुमुद्र ,वक्र नक्षत्रचक ' विषुवन्मण्डलमित्यर्थः। अपसव्यगमसुराणां तदेवोदचक्र अप्तदक्षिणां दैत्यानां क्षितिजासक्तमेव भ्रमति क्षणमपि स्थिरं न भवति । प्रवाहा निलाक्षिप्तं नित्यं प्रवहणेन पश्चाद्गतिना मारुतेन प्ररितमिति यावत् तदेत्तद्भ चक्र तद्देवानां भूलोकोपरिस्थितानां क्षितिजासक्त‘ यतो विषुवन्मण्डलमेव भचक्र तच्च मेरुस्थानं क्षितिजमेव व्याख्यातम् । तत्रस्था भ्राम्यते प्रवाहानिलेनतदेवैः प्रदक्षिणगं सदृश्यते । दैत्यैश्व प्रदक्षिणगं यतस्तेषां परस्परमधोभावः यथा कश्चि त्किमपि दक्षिणे हस्ते कृत्वा यदासन्नो भवति, तदा तत्प्रति रूपकारस्य वामे हस्ते तत्र लक्ष्यते, इत्येवं सव्यापसव्यसिद्धिः, एतच्च खगोलोपर्यंधः स्वस्तिकयो शला काने प्रवेश्य सर्वं प्रदर्शयेत् । गोलो ध्रुवयो बद्धमिति व्याप्तिप्रदर्शनार्थम् । ध्रुवाभ्यां यावद्भचक्रस्य द्वादशराश्यात्मकस्य व्याप्तिमुरुजबंधानामिव मध्यावभूगोलमध्यं यावत् । अयमभिप्रायो द्वादशराशि व्यतिरिक्तो भपंजरे सकक्षे सभूमिके कलि त्प्रदेशे नास्तीत्यर्थंः । अन्ये तु पुनरन्यथा व्याचक्षते । भूगोल एव प्राङ्मुखो भ्रमति