पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६१४ ब्राह्मस्फुटसिद्धान्तः परिकल्पते इत्यभिप्रायेण तदपि न शक्यते वक्तुम् । तस्यापि मूर्तत्वादन्यस्तस्यान्य इत्यनवस्थाप्रसङ्गःअथोच्यते स्वशक्त्यासौ तिष्ठतीति तत्प्राथम्यादेव सा शक्तिः कथं भुवो न परिकल्पते । भूमेश्रावश्यं शक्तिः परिकल्पयितु बुध्यते । अन्यथा सर्वतोऽपि परस्परमधो तावेन सत्त्वानां भवस्थितेरेव न स्यात्। समुद्रादीनामपि च तस्मान्मूतिमदाधाररहितो विशिष्टशक्तियुतो भूगोलः खेऽवतिष्ठते इत्युपपन्नम् । अथ मृतं परिकल्पते । कश्चिदाधारस्तत्सिद्धसाध्यताचार्येणैवोक्तत्वात्प्रागाद्याया- मस्माभिरपि धर्माधर्मनिबन्धनी स्थितिर्वाद्यादीनामत्युपगम्यते । नवास्माक- प्रमाणभागेव प्रावीण । यतो वैयाकरणाना कर्मधारय समासोदाहरणीभूता वयं चतुर्वेदत्वात् केवलं शास्त्रदृष्ट्या परीक्षध्वस्। युक्तिमदयुक्तिमद्वद्याख्यात मायसूत्रम् । अत्र वलायचार्यं क्षितिगोलः समवृत्तः खे किल तिष्ठति समंतत स्त्वपदे सामान्यैः सत्वानां शुभाशुभैः कर्मभिरुपात्तः । तथा वसिष्ठसिद्धान्ते जगदण्डखमध्यस्था महाभूतमयो क्षितिः भवाय सर्वसत्वानां वृत्तगोल इव स्थितेति गोलवासनयाधुना प्रदर्शयेते। तद्यथा स्वदेशाक्षाग्रादुत्तरतोयः शलाकाग्रहमपकृष्य स्वगोलोकोपरि स्वस्तिकवेधे प्रवेशयेत् । तद्दक्षिणग्रादधखगोलो स्वस्तिकवेचे द्वितीयमगं न्यसेत् । एवं स्थिते गोले स्वयमेवार्यार्थावगतिर्भवति । भूगोलस्योपरि यत्रायं शलाकाभेदस्तत्रमेरुर्देवनिवासः यत्राधस्तत्र दैत्यनिवासो वडवामुखमेको ध्रुवो मेरोरुपरि शलाकाग्रे द्वितीये वडवामुखस्योपरि शलाकाग्रे असुरसुराश्च परस्थमधो मन्यन्ते । अत्र चार्यभट: सुमेरुः स्थलमध्ये तदधो वडवामुखं जलमध्ये । असुरसुरा मन्यन्ते परस्परमध: स्थितानियतम् । अन्यथा पञ्चसिद्धान्तिकायाम् तरुनगनगर न रामसरित्समुद्रादिभिः चितः सर्वः विबुधनिलयः सुमेरुस्तन्मध्येऽधः स्थिता दैत्याः सलिलतटासन्नानां वाडवमुखी दृश्यते यथा छाया तद्वद्गतिरसुराणां मन्यन्ते तेऽप्यधो बिबुधान् । तथा लङ्कासिद्धपुरयोर्यमकोटी रोमकयोश्च परस्पर मध्ये भावःएवं प्रतिपदमप्यधो भागकल्पना । न च । परमार्थतया भूमेरुपर्यधो भागकल्पना शक्यते वक्तुम् । यतः सर्वतोऽपि सत्वानां स्थितिः, यतो भूगोल त्रिचतुष्पदकोटजलधरनगनगरतरु जलधारादिभिः कदंबपुष्पग्रन्थिरिव केसरैः प्रचितः । अत्र स्वायंभट-यद्वत्कदंबपुष्पग्रन्थिः प्रचितः समन्ततः, कुशमैः तद्वद्धिसर्वे सत्त्वैर्जलजैः स्थलजैश्च भूगोलः । तथा चायलाटदेवः। पर्वतनदीसमुद्रः पुरराष्ट्र द्रमचतुष्पदारवाथैः प्रचितः कदंबपुष्पग्रन्थिरिव समन्ततः कुसुमैः यच्चाचार्येण तदुपरीत्यादि, तदपि धर्माधर्मप्रदेशापेक्षया सर्वतः सर्वेषामधोभूरुपर्याकाशमेत प्रदशतं च भवति मूर्तिमदाधारनिरासायवा । यैश्चोक्तं मध्ये मेरुः. तैः समुद्रा वस्थितिनं ज्ञाता जलात्स्थलभागापेक्षया यच्च निरक्षदेशोपरि विषुवन्मण्डलं षष्टि घटिकांकितं प्रदशतमासीत्तन्मेरुस्थितानां क्षितिजम् । यच्चोन्मण्डलं तत्सममण्डलं पूर्वापरयोः क्षितिजे ग्राक्षयोश्च तस्य लग्नत्त्वाद्वडवामुखवासिनामपि एवमेव मुद्रोपि परिकरवदुभयेषां मेषाद्यपमण्डलाधं क्षितिजादुपरिस्थिति दृश्यं स देवानां तुला