पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


गोलाध्यायः १६१३ प्रति नक्षत्रं भिन्नो विक्षेपः । पाताभावात्तत्रापि न प्रदशाम् । स्वाहोरात्रवृत्तानि क्रान्त्यग्रेषु मेषादीनां ग्रहाणां च प्रदर्शयितव्यानि ततः सर्वकक्ष्यामध्येयाः। शाला कायां भूगोलाकारामृदान्येन वा प्रदर्शयितव्या । एवमयं भूगोलः कक्षापरिवेष्टितो भकक्षांतस्ततः पूर्वस्वस्तिके सूत्रस्येकमग्र ' वद्ध्वा द्वितीयमग्न भुवं भित्त्वा परस्व स्तिके बध्नीयात् । तत उपर्यधः स्वस्तिकयोभू भेदिसूत्र' बध्नीयात् । ततो भूगोल स्योपरि यत्र सूत्रेण कृतो भेदस्तत्र भूप्रदेशे लंका । यत्राधः तत्र सिद्धपुरम् । यत्र पूर्वेण भेदस्तत्रयम-कोटी यत्रापरतः सूत्रभेदस्तत्ररोमकं पत्रोत्तरेण यः शलाका भेदो भूगोले तत्र मेरुयंत्र। दक्षिणेन तत्र वडवामुखम् । विनिगतशलाकाग्रयोश्च ध्रुवौ प्रदश्यौं लंका यमकोटी सिद्धपुरी रामकानामवगाहीयः परिणाहो भुवः ससर्वो निरक्षो देशश्च । सर्वत्र चिह्नानि कारयेत्, एवमयं लंकायां गोलः समरा वावतिष्ठते । अथायमेवैकोभपंजरः प्रदश्येते सर्वग्रहविशेषस्तत्रैव । यतो भिन्न कक्ष्यागता अपि नक्षत्रगता एव भकक्ष्या गता इवोपलभ्यन्ते । तस्मादेक एव कार्यः अस्माभिश्च वस्तुदर्शनं कृतम्, तत्र लंकास्थस्य द्रष्टुविषुवन्मंडलमेव सम- मण्डलं प्राच्यपरं येन द्वितीयं तद्यादेवाः भूगोलमेरुवडवामुखस्थानां ध्रुवयोश्चोध्र्व- स्थानप्रदर्शनार्थमार्यामाह रवे भूगोलस्तदुपरि मेरौ देवाः स्थितास्तले दैत्याः । रवे भगणाक्षाग्रस्थावुपर्यधश्च तौ ध्रुवौ तेषाम् ॥३॥ वास०-खे वियति भूगोलस्तदुपरि मेरौ देवाः स्थिताः तस्मिन् भूगोले उपरि मेरुः तत्र देवाः स्थिताः तले दैत्याः तस्यैव भूगोलस्याधो दैत्याः वडवामुखवासिनः खे भगणाक्षाग्रस्थौ खे आकाशे भगणस्याक्षौ भगणाक्षौ तयोरग्रे स्थितौ भगणा ग्रस्थौ उपर्यधश्च ध्रुवौ। एकमुपरि द्वितीयोधस्तेषां देवदैत्यानां यो देवानामुपरि दैत्यानामधो दैत्यानामुपरि यः स देवानामधः स्थित इत्यर्थः। नत्विदमत्याश्रयं- मुच्यते खे भूगोल इति । यावदल्पस्थायि मूतिमत्पदार्थं स्याकाशे न स्थितिर्ह श्यते । किमुत महाप्रमाणिक्रया भुवो नगनगरसमुद्रद्वीपगजतुरगरथाद्यनेका- श्चर्याकुलाया नैतच्चोद्यम् । स्वरूपत्वाद् यथाग्निर्दहनात्मको वायुश्च प्र रणात्मकः उदकं वक्रदनात्मकं न तेषां कश्चित्स्वविषये प्रयोजकः एवमियमपि भूधारणात्मि कानधार्यमाणा तस्मात् खे स्थिरेयं सर्वं धारयति । अथ पतत्येव तिष्ठतु कानः क्षतिरिति चेत् । तदापि न यतो लोष्ठादयः शिशुभिरुपरिक्षिप्ता भुवमाससाद यन्तो डैश्यन्ते । मन्दक्षितिः पततीव । असाध्यमेवैतदतिगुरुत्वादुभूमेः अथवावश्यं पतति, तथापि क्व पततु अध इति चेत्। किमिदमधोनामप्रतियोगि सापेक्षभ्राधः शब्दः यथा सत्व विशेषणानामस्मदादीनामधो भूरुपरिवियदेवमस्याः सर्वाघो भूताया भुवः किमधः स्वमिति चेत् । तह सर्वतो युगपत्पतनप्रसंगः, तत्रोपरि पाश्र्वपतने न नस्तोदृष्ट विरोधात् । अधश्च निरस्तसम्बाधः पतनादाधारविशेषः