पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६१२ ब्राह्मस्फुटसिद्धान्त: उच्यमानं शोभनं प्रपंचेन । तत्र तत्रायां सूत्रे व्यावर्णयिष्यामोऽत्रालं भवत्विति विरतरेण प्रकृतमभिधीयत इति । इदानीं गोलस्वरूपपत्तिपादनायार्यामाह- शशिबुधकुजार्कसितगुरुशनिकक्ष्यावेष्टितो भकक्ष्यतः । भूगोलः सत्त्वानां धृताश्रुतैः कर्मभिरुपात्तः ॥२॥ वास० -शशीबुधश्चेत्यादिद्वन्द्व-तेषां कक्ष्याः शशिबुधसितार्ककुजगुरुशनिकक्षाः कक्ष्यशब्देनात्र मध्यग्रहभ्रमणप्रदेशवृत्तमुच्यते ताभिर्वेष्टतःतासां मध्ये भूगोल इत्यर्थः । अयमर्थः भूगोलमध्यं मध्ये कृत्वा स्वयोजनकर्णेन यवृत्तमुत्पाद्यते तत्कक्षामंडलं तच्च भूगोलाबहि: शशिनः ततो बुधस्य । ततोऽपि शुक्ररविभौम गुरुशनीनां क्रमेण कक्ष्याः सप्त ताभिर्वेष्टितोऽयं भूगोलो भकक्ष्यांतःतानि ज्योतींषि । तेषां कक्षागोलनक्षत्रविशेषः सर्वगणितगम्यः क्षेत्रत्वात् । यथा वैयाकरणः प्रकृतिप्रत्ययागम लोपवर्णविकारागमादिभिः साधुत्वं शब्दस्य प्रति पद्यन्ते । याज्ञिकाभ्रतुद्योदिभिर्यज्ञादीन्। विप्रवराश्चेत्युत्पलानालादिभिः सिरा दिवेधात्प्रतिपद्यते । एवमिहापि सांवत्सरा ज्याधनुः शरभुजकोटिकणवलंबक शलाक़वृत्तादिभिः क्षेत्रगणितविशेषेश्व, सत्यपूर्वकेः सत्यं ग्रहभ्रमणधरित्री संस्थानादिकं गोलातत्त्वं प्रतिपद्यते । गोलकलक्ष्यैः लक्षणैः क्षपितपरमतैः वृत्ता त्वदेववृत्तत्वं च । गोलभगोलयोरुत्तरार्यायां निराधारत्वं च । मेरोर्महत्त्वं निरा कारणं व स्वल्पत्वादुभूमेवासक्तिः, कक्षन्नात्य निर्धार्यते ग्रहनक्षत्रावलम्बनं भयं जरं भ्रमविशेषंभिन्नदेशजनितैश्च मेरुवशेनोदयास्तमयनिवृत्ति : भिन्नार्कोदय प्रतिपादनेन महदिंदोरावरणमित्यादि न राहुनिवृत्ति भूगोलस्य समुद्रपरिषेरन्यो महान् परिधिर्नास्तीति शेषसमुद्राणां महत्त्वनिराकरणं मण्डलमुदयमण्डलमुन्मंडल मित्यादि विज्ञेयं लब्धार्थः । ततोऽपमंडलप्रमाणमेवान्यद्वृत्तम् । षष्टिशतत्रयां कितं मेषादेरारभ्य यावति प्रदेशं चन्द्रपातो वर्तते । तत्र बध्वा ततोऽर्धचक्रांतर प्रदेशे द्वितीये वंधः कार्यः। यथा च प्रथममर्धमपमंडलादुत्तरेणावतिष्ठते, द्वितीय मधं दक्षिणेन तथा च तिर्यग्निदध्यात् । यथा तदपमंडलयोरंतरे विक्षेपभागा भवन्ति । नवतितमे भागे बंधाभ्यामुभयतोऽपि तद्धिमण्डलमेव। एवमियं चन्द्र कक्ष्या बुधादीनामपि स्वयोजनकर्णप्रमाणानुपातेन स्वकक्ष्यापंजरः कार्यः । ते पंजराद्वहिङ्घस्य ततोऽपि तस्येत्यादि तावद्यावदष्टमो भपंजरः। सर्वेषां पंजराणां दक्षिणोत्तरंतकयो वोघौकृत्वा ततो या शालाकां सुदीर्घा समस्तपंजर स्वस्ति कार्धत्तेंदिनीमुभयपाश्र्वे विनिर्गतानां दक्षिणोत्तरा यतौ पंजरभार सह प्रवेशयेत् । अपमंडलानि सर्वेषां पूर्ववत् । अपमंडलाच्च विमंडलानि चन्द्रवत्, इयांस्तु विशेषः स्वपठितविक्षपभागा यथा नवतितमे भागे बवाभ्याममडलयोरतरं भवति तथा निदधात् शेषं सामान्यम् । रविकक्षायां मण्डलं नास्ति यतः तद्गत्यवधित्वेन सर्वेषामेवग्रहाणां गतयो दक्षिणोत्तराः कल्पिताः तद्गतिश्चापमंडलमैव भकक्षायां