सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४९० ब्रह्मस्फुटसिद्धान्ते सु- भा.–येन तिर्यक्कीलेन सह चक्रमयस्कारशाणवधृतं तस्मिन् सूत्रस्यै- कमग्र बद्ध्वा विपुलदैर्यं सूत्रं वेष्टयेत् । तत् सूत्री च पर्यसूत्रकमुच्यते । तस्मिन् कीलस्योरिगामिनि तत्पर्यायसूत्रकस्य द्वितीयाग्रे ऽलाबुतुम्बं बद्ध कार्यम् । ततः धतं प्राग्वतलकेऽधोरन्ज़े जलं प्रक्षिप्य तथा जलाधारा प्रयोज्या यथा तदाघाते नाधोगच्छताऽलाबुना नाडिकया चक्रस्यैकं भ्रमणं भवेत् । एवं पानीये जले स्रवति नाडिकोत्पद्यते इत्याचार्याभिप्रायः ।५६। वि. भा.-येन तिर्यक् कीलकेन सह चक्रमयस्कारशाणवधृतं तस्मिन् सूत्रस्यैकमग्न' बद्ध्वा विपुलदैध्यं सूत्रं वेष्टयेत् तत्सूत्रं पर्येयसूत्रकं कथ्यते । तस्मिन् कीलस्योपरिगामिनि तत्पर्यायसूत्रद्वितीयाग्रेऽलाबु ( तुम्बं ) बद्ध कायंस् ततः पूर्ववन्नलकेऽघोरथं जलं प्रक्षिप्य जलाधारा तथा प्रयोक्तव्या यथा तदाघातेनाधो गच्छताऽलाबुना नाड़िकया चक्रस्यैकं भ्रमणं भवेत् । एवं पानीये (जले) स्रवति नाडिकोत्पद्यते इत्याद्याभिप्राय इति । शिद्धान्तशिरोमण "ताम्रादिमयस्यांकुशरूपनलस्याम्बुपूर्णस्य । एकं कुण्डजलान्तद्वितीयमग्नत्वधोमुखं च बहिः । युगपन्मुक्त चेत् कं नलेन कुण्डाद् बहिः पतति । नेम्यां बध्वा घटिकाश्चक्र जलयन्त्रवत्तथा धार्यम् ॥ नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये । भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् ।। चक्रच्युतं तद्वंदकं कुण्डे याति प्रणालिकया ।" भास्कराचार्येणैवं स्वयंवहयन्त्र विषये कथ्यते । अस्य व्याख्या-ताम्रादिधातुमयस्यांकुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्ण स्यैकमग्न जलभाण्डेऽन्यदग्र बहिरधोमुखं चैकहेलया यदि विमुच्यते तदा सकलमपि भाण्डजलं नलेन बहिः क्षरति। तद्यथा। छिन्नकमलस्य कमलिनी नलस्य जलभृद्भाण्डे क्षिप्तस्य जलपूर्णसुषिस्यैकमूप्रभाण्डाद्बहिषोमुखं दूतं यदि ध्रियते तदा सकलमपि भाण्डजलं नलेन बहिर्याति । अथ चक्रनेभ्यां घटीबैद्ध वा जलयन्त्रवत् वृथाधाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलं तस्य घटीमुखे पतति । एवं पूर्णघटीभिराकृष्टं तद्भ्रमत् केन निवार्यते । चक्रच्युतस्य जलस्याधः प्रणालि कया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपणैरपेक्ष्यमिति ॥५६॥ अव पुनः विशेष कहते हैं । हि- भा.-जिस तिर्यक् रूप कील के साथ चक्र शाण देने के यन्त्र की तरह रक्खा