पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३९८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४८७ मालूम होता है। श्रीपति ने सुगम उपाय से उपयोग के लायक थोड़े ही यन्त्रों को (आचार्योक्त और लल्लोक्त से) लेकर लिखा है इति ॥५०-५२ इदानीं स्वयवहयन्त्रमाह । लघुदारुमयं चन समसुषिरारान्तर पृथगराणाम् । अर्धेन रसेन पूर्ण परिधौ संदिलष्कृतसन्धिः ॥५३॥ तिर्यक्कीलोमध्ये द्वयाधारस्थोऽस्य पारदो भ्रमति । छिद्राण्यूर्ध्वमधोऽतश्चक्रमजस्र स्वयं भ्रमति ॥५४॥ सु- भा.-अराणामाराणाम्। संश्लिष्टकृतसन्धिः संश्लिष्टौ मुद्रितः कृतः सन्धिश्छिद्रम् यस्य चक्रस्य तत् । अस्य यन्त्रस्य मध्ये तिर्यक्कीलो मध्ये स्थाप्यश्चक्र श्चयस्कारशाणवद्द्वयाधारस्थः कार्यः । अस्य चक्रस्य पारदो रस आराणां छिद्राणि प्रति ऊध्र्वमधश्च यतो भ्रमति अतस्तदाकृष्टं चक्रे स्वयमेवाजस्र भ्रमति । ‘लघुदारुजसम चक्रे समसुषिराराः समान्तरा नेम्याम्-इत्यादि भास्करोक्तमेतद- नुरूपमेव ।५३-५४॥ वि. भा.–पृथक् आराणां समच्छिद्र समान्तरं लघुकाष्ठमयं चक्रविधेयम् । अर्जेन रसेन (पारदेन) पूर्णं परिधौ संश्लिष्टकृतसन्धिः (संश्लिष्टो मुद्रितः कृतः सन्धिश्छिद्रयस्य चक्रस्य तत्), अस्य यन्त्रस्य मध्ये तिर्यक्कीलः स्थाप्यःचक्रद्धा यस्कारशाणवद्द्वयाधारस्थः कार्यः। अस्य चक्रस्य पारदो (रसः), आराणां छिद्राणि प्रति ऊध्र्वमधश्च यतो भ्रमति, अतस्तदाकृष्टं चक्र’ स्वयमेवाजस्र (सततं) भ्रमति । यन्त्रपालिगता अंकुशकृतयो रसप्रक्षेपार्थं धातुजाः काष्ठजा वा रूपविशेषा आराः। आरादिषु कियत्पारादिदानेन तद्यन्त्र स्वयं भ्रमेदित्यस्य ज्ञानं दुर्घटं देशकालयन्त्रपरिमाणाधीनमीश्वरैकगम्यमिति । सिद्धान्तशिरोमणौ “लघुदारुजसमचक्र समसुषिराराः समान्तरा नेम्याम् । किञ्चिद्वा योज्या सुषिरस्यार्षे पृथक् तासाम् ॥ रसपूर्णं तच्चक्र द्वयाधाराक्षस्थितं स्वयंभ्रमतो" ति भास्करोक्तमाचार्योक्ता- नुरूपमेवास्ति । । अस्यार्थः-ग्रन्थि कीलरहिते लघुदारुमये भ्रमसिद्ध चक्र आराः किं विशिष्टाः-समप्रमाणाः समसुषिराः समतौल्याः समान्तरा नेम्यां योज्याः । ताश्च नद्यावतंचदेकत एव सर्वाः किञ्चिद्वक्र योज्याः । ततस्तासामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेव पूर्णा भवति, ततो मूद्रिताराग्र तच्चक्रमयस्का- रशाणवद् द्वयाधारस्थ स्वयं भ्रमति। अत्र युक्ति-यन्त्रकभागे रसोह्यारामूलं १. छिद्राण्यूर्वमधोऽतश्चक्रमजघ्र स्वयं भ्रमति ॥५४॥