१४२४ ब्राह्मस्फुटसिद्धान्ते रुन्नता भागास्तथा तत्राङ्कित उन्नतकालश्च पूर्वापरकपालयोर्दिनगतशेषा घटिकाः स्युः । अत्रोपपत्तिः। गोलयुक्त्यैव स्फुटा ॥८॥ वि. भा.-धनुर्न्त्रं तथा धार्यं यथाऽन्यत् छायासाम्यं भवेदर्थात् क्रान्तिवशेन ‘अक्षप्रभासंगुणितापमज्या तद्द्वादशांशो भवति ! क्षितिज्येत्यादिना चरज्या साध्या, तथेष्टशकोरिष्टहृतेर्धानम्, इष्टहृतेरिष्टान्त्या, ततश्चरज्या संस्कारेण सूत्रज्ञानं तत उन्नतकालावबोधः सम्यग्भवत्येवं प्रतिघटिकोन्नतकालवशेन धनु- र्यन्त्रकेन्द्र स्थापितस्येष्टप्रमाणकीलस्य छ याः असाध्य स्वस्वोन्नतकाल- संमुखेऽङ्कनीयाः । धनुर्न्त्रमभीष्टदिने तथा धार्यं यथा कीलच्छाया धनुरग्रयो रन्तरे परिधौ कीलच्छायासम्बन्धिगणितागतशङ्कुभाणूसमा भागाः स्युस्तथा धृते सति--अवलम्बोऽपि दृक्सूत्रकारो लगति, धनुर्मध्यात् स्वलम्बभुक्ता भागा रवेरुन्नतभागास्तत्राङ्कित उन्नतकालश्च पूर्वापरकपालयोदिनगतशेषघटिकाः स्युरिति ॥ सिद्धान्तशेखरे गोलयन्त्रेण दिनगतघटिका दिनशेषघटिकाश्च निम्न लिखित प्रकारेण श्रीपतिना आनीतः चक्रशार्क क्रान्तिवृत्तं विधेयं उर्वीवृत्तं याम्यवृत्तं च तद्वत् । नाडीवृत्तं षष्टिभागाङ्कितं हि याम्योदक्स्था यष्टिरुर्वीजमध्ये । कार्यं खगोलस्य दृढ़स्य मध्ये भगोलमेतत् परितस्तथा च । यन्त्रांशके तिग्मकरो ऽपवृत्ते क्षिपेच्छलाकामिह तत्र भागे । तान्नाड़िकावृत्तगतां विधाय समुद्गमात् सूर्यवशेन भूजात् । तदीयभा केन्द्रगता यथा स्यात् स खम्बुनाडया भ्रमयेत्तथैव । पातङ्गचिह्नक्षितिजान्तरस्थाः समद्गतांशा गणकनिरुक्ताः । नाडयः शलाका कुजयोस्तु मध्ये समुन्नतास्ता नियतं भवन्तीति ॥ व्याख्या-षष्ट्यविकशतत्रयांशैः समानैरिचह्नितं क्रान्तिवृत्तं विधेयम् । तद्वत् ३ समषष्ट्यधिकशतत्रयांशैश्चिह्नितमेव क्षितिजवृत्तं याम्योत्तरवृत्तं च विधे यस्। नाडीवृत्तं षष्टिभागाङ्कितं विधेयम् । क्षितिजवृत्तस्य केन्द्र दक्षिणोत्तर बिन्द्वर्गाता यष्टि ( सुसरलससारदारुनिमिता यष्टिका ) धैर्या, गोलकेन्द्ररूपे क्षितिजवृत्तकेन्द्र दक्षिणोत्तरसमस्थानरूपयोगंता च यष्टिः कार्येत्यर्थः। दृढ़स्य (कठिनमाबद्धस्य) खगोलस्य (सममण्डल-याम्योत्तर मण्डलादिनिमितस्य गोलस्य) केन्द्र तथा समन्ततः एतत् अनन्तरोक्त क्रान्तिवृत्त-क्षितिजवृत्तभ्याम्योत्तरवृत्त, नाडीवृत्तांत्मकं भगोलं कार्यम् । इह भगोले क्रान्तिवृत्ते यत्रांशके (यस्मिन्नंशे) सूर्य
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३५
दिखावट