पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


यन्त्राध्यायः १४२५ स्तस्मिन्नंशे शलाकां (दारवीं लोहसंभवां वा) क्षिपेत् (दद्यान्) । तां शलाकां वृत्तसंलग्नां कृत्वा कथमित्याह। उदयक्षितिजा सूर्यवशेन । तस्याः शला- कायाश्छाया यथा केन्द्रगतास्यात् तथा यन्त्रं भ्रमयेत् । पातङ्ग चिह्न (शलाकया क्षिप्तं रविचिह्नमिति तथा क्षितिजं च तयोरन्तरस्था अंशा गणकैः क्षितिजादुन्न- तांशाः कथिताः । शलाकाक्षितिजयोर्मध्ये शलाकासंसक्तनाडीवृत्तस्य क्षितेज वृत्तस्य च मध्ये नाडयो घटिकायास्ता समुन्नता नाड्यो भवन्ति । दिनगत घटिका दिनशेषा वा घटिका भवन्तीत्यर्थः । श्रीपयुक्त गोलयन्त्रद्वारेण रवेरुन्नतांशज्ञानं-उन्नतघटिकाज्ञानं च लल्लोक्तस्य अथ लग्नकाल सिद्धथ पूर्वापर परिकरोत्तरैर्नवभिः। निर्मापयेद् भगोलं प्राग्विधिना क्रान्तिवृत्तमिह ॥ तस्य बहिश्व खगोलं समवृत्तक्षितिजदक्षिणोत्तरगैः । उन्मण्डलेन च तथा ध्रुवयष्टया पूर्ववत् सभुवा ॥ षष्टशङ्कयेद् भगोलं प्रागपराणीतराणि चक्रांशैः । कुर्याद् दृढं खगोलं इलथं भगोलं च नलिकाभ्याम् । यस्मिन्नंशे सविता तत्र शलाकां क्षिपेदपमवृत्ते । नाडीवृत्तस्थां तामृदयक्षितिजाद्रविवशेन ।। भ्रमयेच्छश्वत्तद् यथा न केन्द्र त्यजेच्छलाकाभा । रविचिन्हक्षितिजान्तरमुदितांशास्तृणकुजान्तरं घटिकाः । अस्य सर्वथव समानार्थकमिति ॥ गोलाध्याययन्त्राध्याये भास्कराचारेणाऽप्येवमेवेदं गोलयन्त्रमभिहितम् । “अपवृत्तगरविचिन्हं क्षितिजे धृत्वा कुजेन संसक्ते । नाडीवृत्ते बिन्दु कृत्वा धूत्वाऽथ जलसमं क्षितिजम् । रविचिन्हस्य च्छाया पतति कुमध्ये यथा तथा विधृते। उडुगोले कुजबिन्द्वोर्मध्ये नाडयो युयाताः स्युः । यथोक्तविधिना खगोलान्तर्भगोलं बद्ध्वा तत्र क्रान्तिवृत्ते मेषादेरारभ्य रविमुक्तराशिभागाधं दत्त्वा तदग्र यच्चिन्हं तदपवृत्तगरविचिन्हमुच्यते । भगोलं चालयित्वा रविचिन्हं क्षितिजे धार्यम् । तथा धृते सति क्षितिज प्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकया बिन्दुः कार्यः । ततः क्षितिजवृत्तं जलसमं यथा भवति तथा गोलयन्त्रस्थिरं कृत्वा भगोलस्तथा चाल्यो यथा रविचिन्हस्य छाया भूगर्भ पतति तथा कृते सति विषुववृत्ते क्षितिजविन्द्वोर्मध्ये यावत्यो घटिकास्तावत्यस्तस्मिन् काले दिनगता नेयाः इति ॥८॥