पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १३९९ श्रीपत्युक्तमेवास्ति । भास्करश्च-"ऊध्र्वाधरस्वस्तिक कीलयुग्मे प्रोतं २लथ दृग्वलयं तदन्तः। कृत्वा परिभ्राम्य च तत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र । ज्ञेयं तदेवाखिल खेचराणां पृथक् पृथग्वा रचयेत्तथाष्टौ ।” यथा दृग्मण्डलबन्धनमुपपादयतं तदेव श्रीपत्युत्तयाऽपि पर्यवस्यतीति स्फुटमेव ।५५। अब दृग्मण्डल को कहते हैं। हि. भा-भूगर्भस्थित द्रष्टा (दर्शक) दृग्मण्डल के ऊध्र्वे परिध्यषं स्थत ग्रह को देखता है इसलिये वह दृग्मण्डल प्रहाभिमुख भ्रमण करता है । सिद्धान्तशेखर में ‘द्रष्टुमी हाभिमुखम भ्रमवृत्तसक्त दृग्मण्डलं प्रतिपलं भ्रमति ग्रहाणास् ।’ श्रीपति इस तरह कहते हैं । भास्कराचार्य ‘ऊध्र्वाधरस्वस्तिक कीलयुग्मे प्रोतं इलथं दृगवलयं तदन्तः ।' इत्यादि से दृग्मण्डल बन्धन को जैसे कहते हैं औपत्युक्ति से भी वही होता है इति ।।५५।। इदनीं दृक्क्षेपवृत्तमाह । क्षितिजापमण्डलयुतिर्लग्नं लग्नाग्रया दिशा लग्नम् । दृक्क्षेपमण्डलं दक्षिणोत्तरं वित्रिभविलग्ने ।५६। सु. भा.–क्षितिजक्रान्तिमण्डलयोर्यत्र युतिस्तदेव लग्नम् । दृक्क्षेपमण्डलं लग्नाग्रया दिशा लग्नं वित्रिभलग्ने वित्रिभलग्नस्थाने क्रान्तिमण्डले दक्षिणोत्तरं तिर्यग् भवति । लग्नाग्रा यद्युत्तरा तदा लग्नाग्रांजो दक्षिणसमस्थानात् पूर्वस्वस्तिक- दिशि दक्षिणाग्रायां च लग्नाग्रांशैर्दक्षिण समस्थानात् पश्चिमस्वस्तिकदिशि क्षितिजे लग्नं वित्रिभखस्वस्तिकगतं दृक्क्षेपमण्डलं भवतीत्यर्थः। ‘ज्ञेयं तदेवाखिल- खे चराणा'-इत्यादि भास्करोक्त विचिन्त्यम् ।।५६। वि. भा. —क्षितिजवृत्तक्रान्तिवृत्तयोर्यत्र योगस्तदेव लग्नम् । लग्नोत्पन्नं नवत्यंशवृत्तं दृक्क्षेपवृत्तं भवति तच्च वित्रिभ लग्नस्थाने क्रान्तिव्रत्ते तिर्यक् (लम्ब रूपं) भवति, लग्नाग्रया दिशा लग्नमर्थाल्लग्नाग्रा यद्युत्तरा तदा दक्षिणसमस्था नाल्लग्नाग्रशैः पूर्वस्वस्तिकदिशि यदि च लग्नाग्रा दक्षिणा तदा दक्षिणसमस्था नाल्लग्नाग्रांशैः पश्चिमस्वस्तिकदिशि क्षितिजे लग्नं वित्रिभलग्नखस्वस्तिकगतं तत् (इक्क्षेपवृत्तं) भवतीत्यर्थः। सिद्धान्तशेखरे 'प्राग्लग्नमत्र भवनत्रितयेन हीनं दृक्क्षेपमण्डलमुशन्ति कुशाग्रधीराःइत्यनेन श्रीपति, सिद्धान्तशिरोमणौ ‘दृग्मण्डलं वित्रिभलग्नकस्य वृक्षेपवृत्ताख्यमिदं वदन्ती’ त्यनेन भास्करोऽप्याचार्यो क्तानुरूपमेव कथयतीति ॥५६॥ अब दृक्क्षेपवृत्त को कहते हैं । हि. भा.-क्षितिजवृत्त और क्रान्तिवृत्त की पूर्व दिशा में जहां योग है वही लग्न है ।