पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ६७ २१६०० असु =वषन्तःपातिन्पष्टसावनसंभूतः मध्यसा=१ नामध्यमगतकलासमसु, परञ्च कलातुल्या असवो नाडीमण्डल एवातो नाडीमण्डल एवोक्तग्रहश्चालनोय इति सिद्धः। अत: स्वस्वभगणात्पूर्वोक्तानुपातेन नाडीमण्डलीय मध्यमार्कस्य काल्पनिकत्वा कल्पिते क्रान्तिवृत्तोयमध्यमकं आगतोऽयं मध्यमग्रह इत्यत्र ‘दशशिरः पुरि मध्यम भास्करे क्षितिजसन्निधिगे इति वदति भास्करः' गोल सन्धेः प्रागाशाभिमुखं चालितयोः समगतिवेगवतोरुभयवृत्तीयमध्यमार्कयोर्यदा नाडीवृत्तीयमध्यमार्को लङ्काक्षितिजस्थस्तदा क्रान्तिवृत्तीयमध्यमाकं: पदवशेन क्षितिजोऽध्ॐऽधश्च कोटिकर्णान्तरस्थ: ( नाडीक्रान्तिध्रुवप्रोत्वृत्तैरुत्पन्नजात्यत्रिभुजीयकोटिकर्णयो रन्तरस्थः स्यादिति ) अत्रोक्त ग्रहदययोरन्तरमुदयान्तरं परममप्यल्पमेवातः क्षितिजसन्निधिग इति कथ्यते भास्करेण, परं ब्रह्मगुप्तेन तदन्तरं ( उदयान्तरं ) शून्य मत्वा लङ्कायां भास्करोदयिकः’ कथ्यते, अत्र भास्करेण यदुदयान्तरं स्वीकृत्य 'क्षितिजसन्निधिगे’ यत्कथ्यते तद्ब्रह्मगुप्तोक्ता- ‘लङ्कायां भास्करोदयिकः’ पेक्षया समीचीन इति मध्यस्थबुद्धचा विवेचनीयं सुधीभिरिति । अधुना प्रसङ्गादुदयान्तरसम्बन्धे किञ्चिद्विचार्यते क्रान्तिवृत्त यत्र मध्यमरविस्तदुपरिगतं ध्रुवप्रोतवृत्तं ( निरक्षक्षितिजं ) यत्र नाडवृत्ते लगति तस्माद गोलसन्धि यावन्मध्यमरविगतिकलोत्पन्नास सवो विधु वांशा वा, एतन्मध्यमरविगतिकलोत्पन्नासुप्रमाणं नाक्षत्रषष्टिघटिकया युक्तं तदा स्पष्टसावमदिनं भवेत् तथा गोलसन्धि केन्द्रं मत्वा क्रान्तिवृत्तीयमध्यमरविभुजांश व्यासार्धवृत्तं यत्र नाडीवृत्ते लगति ततो गोलसन्धि यावन्मध्यमरविगतकलातुल्या सवो मध्यमरविभुजांश वा, एतन्मध्यमरविगतितुल्यासुयुतं नाक्षत्रपष्टिप्रमाणं मध्यमसावनदिनं भवति, अनयोः स्यष्टसावनमध्यमसावनदिनयोरन्तरम्= ६०+मध्यमरविगतकलातुल्यासु=( ६०+मध्यमरविगतिकलोत्पन्नासु )= मध्यमरविगतकलातुल्यासु-मध्यमरविगतिकलोत्पन्नासु=उदयान्तरासु एत- तिप्रमाणमानीयते, यथा यद्यहोराश्चासुभिर्गुहगतिकला लभ्यन्ते तदोदयान्तरासुभिः किमित्यनुपातेनोदयान्तरसम्बन्धिनी ग्रहगतिरागच्छति ग्रहगतिकला उदयान्तरासु तत्स्वरूपम् अहोरात्रासु ” अनया गत्या रहिताः सहिताश्चहगंणो पन्ना ग्रहाः (नाडीवृत्तोयमध्यमाकदयकालिकग्रहाः) क्रान्तिवृत्तीयमध्यमार्कोदयका लिका ( निरक्षक्षितिजस्थाः ) ग्रहा भवन्त्येतावता ‘मध्यार्कभुक्ता असवो निरक्षे ये ये च मध्यार्ककलासमाना इत्यादि" भास्करोक्तमुपपद्यते । परमुदयान्तरासु मध्येऽपि ग्रहस्य कापि गतिर्भविष्यति तद्ग्रहणं भास्करेण न कृतमतः पूर्वोक्तयुक्त्यो दयान्तरासुसम्बन्धिग्रहगत्यानयनं विधाय तत्संस्कृतोऽहर्गणोत्पन्नमध्यमकदयका- लिकग्रहो नहि वास्तविको निरक्षक्षितिजे क्रान्तिवृत्तीयमध्यमार्कोदयकालिकग्रहो भवितुमर्हत्यतो भास्करोक्तमानयतुं न समीचीनमित्यतो वासवं तदानयनं प्रोच्यते ।