पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यमाधिकारः ६३

णसंख्याकसमे चान्द्रमासगणे अ, द, बिन्द्वोरन्तर्गतचान्द्राधिमसगणस्य योगेन 

अ बिन्दौ चान्द्रमासगणो भवतीति स्फुटमेव । ततो दिनीकरणेन अ विन्दौ चान्द्राहर्गणः स्यात् । अत्र तिथिसंख्याया योगेन ति विन्दौ चान्द्राहर्गणः । अत्रापि ति स्थानीयचान्द्रदिनसंख्याक समं सावनमानं प्रकल्प्य क स्थानान् तादृश-प्रतिसावनानां समायोगेन उ स्थानात् क्कचिदग्रगतो भवेत् । सावनसंख्या- पेक्षया चान्द्रदिनसंख्याया अधिकत्वात् । स च दानाग्रबिन्दू: उ कल्पितः । अत्र उ उ विन्द्व​न्तर्गतानि दिनानि सावनात्मकानीति स्वरूपेणैव स्फुटम् । तैः केवलदिनैः सावनसंख्यासमैश्चान्दैविंशोध्यते तदा उ बिन्दौ सावनाहर्गणः स्यात् । त्र्प्र​त्राधिशेषावमशेषे न गृहीते । त्र्प्र​तो भास्करेण ‘‘द्ययुघटिकादिकमत्र न गृह्यते’ इत्युक्तम् ।

    एवं च सौराच्चान्द्रावगमेऽधिमासाश्चान्द्रात्मकास्तथाधिशेषं च चान्द्रात्मक-

मिति । तथैव चान्द्रात्सावनागमेऽवमानि सावनात्मकानि । तथा तच्छेषं च सावनात्मकमित्यपि सिद्धयति ।

     एवमहर्गणात्क​ल्पगताब्दावगमे सावनदिनगणादनुपातेन यान्यवमदिनानि

तानि चान्द्रजातीयानि भवन्ति । शेषं च तज्जातीयमेव। तत्तु प्रागानोतसावना- त्मकावमशेषस्य सममेव स्यात् । एवमेव चान्द्रात्सौरावगमे येऽधिमासास्ते सौरजाती- यास्तच्छेषमपि तथैव। तदपि प्रागानीतचन्द्राधिशेषेण सममवैत्यनन्तरप्रदर्शितोप- पत्त्या स्पष्टमेव गणितपटूनाम् । अतएवाधिमासस्य चान्द्रत्वे सौरत्वे चाधिशेषं तुल्यमेव स्यात् । किन्त्वत्र सौरदिनानि हार: अन्यत्र चान्द्रदिनानीति सर्वे ‘सौरेभ्यः साधितास्ते चे'दित्यादिगोलीय ग्रन्थेन प्रपञ्चितं भास्कराचार्ये: ।

                      अब अहर्गणानयन कहते हैं।‌
     हि- भा.-कल्पादि से जो गत वर्ष संख्या १६७२६४७१७६ है उसको बारह ते गुणा

देना, गत चैत्रादि मास संख्या जोड़कर जो हो उसको दो स्थान में स्थापित करना । एक स्थान में युग पठित अधिमास संख्या से गुणाकर युग पठित सौर मास संख्या से भाग देने से जो लब्घाघिमास हो उसको द्वितीय स्थान में स्थापित फल में जोड़कर जो हो उसको तीस से गुग्गु कर शुक्ल प्रतिपदादि से गत तिथि संख्या जोड़कर जो फल हो उसको दो स्थान में स्थापित करना, एक स्थान में उसको युगपठित अवमदिनों से गुणा कर युगपठित चान्द्र दिनों से भाग देने से जो लब्धि हो उसको (गतावमदिन) द्वितीय स्थान स्थित पूर्व फल में घटाने से रविसावनाहार्गण होता है; रवि से आरम्भ कर अहर्गण की प्रवृत्ति होती है । इसीलिये आचार्य-पद्य में ‘अर्कादिः' कहते हैं || ३०-३१ ||