पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० ब्राह्मस्फुटसिद्धान्ते वृत्तम् । तत्स्थ रवो परिणतचन्द्रतद्रविगतमिष्टवृत्त ' ( सितवृत्त' कार्य ) तथा परिणतचन्द्रोपरिगतं कदम्बप्रोतवृत्त च कार्यं, सितवृत्त-कदम्बश्रोतवृत्त क्रान्तिवृत्तजचपैकर्णभुजकोटिभिरुत्पन्नचापीयजात्ये सितवृत्तीयचापं सितवृत्तीय-रविचन्द्रान्तरं वा=६०, अतो गोलीयरेखागणितयुक्त्या क्रान्ति वृत्तीयचापं क्रान्तिवृत्तीयरविचन्द्रन्तरं वा =० ततस्तदुदयास्तयोः सर्वदैव रविचन्द्रान्तरं नवत्यंशसमं भवितुमर्हति । परिणतचन्द्रपरिगतकदम्बप्रोतवृत्तः क्रान्तिवृत्तयोः सम्पातबिन्दोश्चन्द्रत्वात् । तेन कृष्णपक्षसधसप्तम्यां तदुदयः शुक्लपक्षसार्धसप्तम्यां चास्तो ज्ञेयः । सिद्धान्तशिरोमणौ भास्करेण ‘कृष्णो रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यथैत एव सिद्धमित्यनेनैवमेव कथ्यते । परमेतत्कथितयोरुदयास्तकालयोः खण्डनं म० म० पण्डितसुधाकरद्विवेदिभिः क्रियते । यथा चा भूकेन्द्राच्चन्द्रकेन्द्रगता रेख चन्द्रपृष्ठे यत्र लगति तद्विन्दुतश्चन्द्रगर्भक्षितिज- धरातलस्य समानान्तरधरातलं कार्यं तदैकं त्रिभुजमुत्पद्यते । भूकेन्द्राच्चन्द्रपृष्ठं यावच्चन्द्रव्यासार्धयुतश्चन्द्रकर्णः कोटिरेको भुजः । रविकेन्द्रमुदयास्तकाले सर्वदा पृष्ठक्षितिज एव भवेतत्रत्यो रविकर्ण:कर्णा द्वितीयो भुजः । पृष्ठ क्षितिजधरातले भुजस्तृतीयो भुजोऽत्र कोटिकर्णभुजैरुत्पन्नत्रिभुजेऽनुपातः क्रियते यदि रविकर्णेन त्रिज्या लभ्यते तदा चन्द्रब्यूसार्वयुतचन्द्रकर्णेन किमित्यनुपातेन रजविलग्नकोणज्या त्रि ४(चर्चक+(१) समागच्छत तत्स्वरूपम्= अस्याश्चापम् = चा, नवत्यंशे रथ क. विशोधितं तदा । भूकेन्द्रलग्नकोणमान रविचन्द्रयोः सितवृत्तीयमन्तरं भवेत्, e०-चा=सितवृत्तीयान्तरम्, ततो भक्ताव्यफैविधोर्देवा यमकुभिरित्यादिना ३०-च पितृणामुदयकालिकगततिथिः -- एतद्दर्शनेन स्पष्टमव १२ १२ मीयते यत्कृष्णपक्षसार्धसप्तम्यां यत्तदुदयकालो भस्करेण कथितः स च न समीचीनःसार्धसप्तम्यां चापस्य द्वादशांशप्रमाण यदि शोध्यते तदोदय कालिकतिथिः समागच्छति पूर्वं पितृणामुदयकालं मत्वा तत्कालीनतिथि प्रमाणमानीतं तद् भास्करोक्तं नागच्छति, एवं पितृणामस्तकालोऽपि शुक्ल पक्षसार्धसप्तम्यां न भवत्यतो भास्करोक्तं ‘कृष्णेरविपक्षदलेऽभ्युदेतीत्यादि न समीचीनमिति । परं म० म० सुधाकरद्विवेदिकृतखण्डनमपि समीचीनं नास्ति । भक्ताव्यकं विधोर्लवा इत्यादिना क्रान्तिवृत्तीयरविचन्द्रान्तरशवशेन तिथ्यानयनं भवति, सितवृत्तीयरविचन्द्रन्तरवशेन नहि, परं पूर्वोपपत्तौ सितवृत्तीयान्तरवशे नैव तिथ्यानयनं कृतमतस्तन्न तथ्यम् । अत्र वास्तवानयनं क्रियते । पूर्वोपपत्तिबलेन सितवृत्तोयान्तरं विदितमस्ति, चन्द्रशरोऽपिविदितोऽस्ति तदोपरिप्रदशतचापीय जात्ये सितवृत्तीयान्तरं कर्णःक्रान्तिवृत्तीयरविचन्द्रान्तरं कोटिः, चन्द्रशरो भुज इति कर्णकोटिभुजैरुत्पन्ने' ) भुजंकोटिज्याकोटिकोटिज्ययोर्जातस्य त्रिज्याकर्णको टिज्ययोघतसमत्वात् ।