पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः ५४४ स्तदुदयलग्नमतस्तात्कालिकग्रहस्थानशरादिनोदयलग्नसिद्धिरॉलयुत्तघा भवति इहाचार्येण कदम्बप्रोतीययुतिकालिकमेव स्थानशरादिकं स्वल्पांतर्ग्रहबिम्ब द्यकालिकमंगीकृत्योदयलग्नं साधितम् । तथा तदेव शरादिकं पश्चिमक्षितिजस्यै ग्रहबिम्बेऽपि प्रकल्प्य पश्चिमक्षितिजस्थे ग्रहविग्वे क्रान्तिवृत्तस्य यः प्रदेशः पश्चिम क्षितिजलग्नस्तदस्तलग्नं साधितं तत् षड्भयुतं ग्रहबिम्बास्तकाले प्राकक्षितिजे लग्नमितिस्फुटम् । ऊदयलग्ने ग्रहबिम्बोदयः सषड्भस्तलग्ने चास्तः । अतस्तदन्तरे स्वोदये ‘ऊनस्य भाग्योऽधिकभुक्तयुक्तो मध्योदयाढये: रित्यनेनया घटिकास्ता ग्रह दिनमानघटिकाः । तावत्कालपर्यंतं ग्रहबिम्बं क्षितिजोपरि भ्रमतीति ग्रहदिनमान संज्ञा समुचितैव । अथ यस्य ग्रहबिम्बस्य प्रथममुदयः पश्चादस्तमयस्तेन सहान्य ग्रहयोग: क्षितिजादुपरि भविष्यति यतोऽन्यग्रहः प्रथममुक्ल ध्यादावेवास्तमेष्यत्यत स्तदा युतिरेष्याऽन्यथा गतेति युक्तितः सिध्यति । उदयलग्नं ग्रहबिम्वोदयेऽस्तलग्नं सषड्भं लग्नं च ग्रहास्तकालेऽतो ग्रहदिन मानघटकासु उदयलग्नस्य चलनमुदयलग्नसपभस्तलग्नान्त रसमम् । तदन्तरं यथाऽल्पं भवति नथा सषड्भस्तलग्नस्य न्यूनाधिकत्वं कल्प्यम् अर्थात् सषड्भ स्तोदयलग्नयोरेकस्मादन्यस्य विशोधनेन यत्राल्पावशेषस्तस्यैवान्यस्य न्यूनत्वमिति युक्तितः सिद्धम्। यथा यदि सषडभस्तलग्नं तुलान्तम् =७ । उदयलग्नम्=२ वृषन्तम् । तदा ७-२=५ । २–७–७ । अत उदयलग्नमूनं सषड्भास्तलग्नं चाधिकमिति ज्ञयम् । एवं यत्र सपङ भास्त लग्नम्=१ । उदयलग्नस्=२ । तत्र १-२=११ । २-११ । अतोऽत्र सषड्भास्तलग्नमूनं ज्ञेयम् । अथ ग्रहदिनम्नान घटिकाभिर्यदि तदूदयलग्नस्य गतिरुदयसषड्भास्तलग्नान्तरसमं तदैकश्र घट्या किम्। जातैकरूपवेगे नैकघटिकायां स्वस्वोदयलग्नगत। यद उदयलग्नगत्यो- रन्तरेणैका घटिका तदा स्वोदयलग्नयोरन्तरेण किंलब्धाः समग्नोतीययुतिक ले गता एष्या वा घटिकास्ताभियुतिकाले स्वोदयलग्नस्ग यावच्चलनं तत्संस्कारेण समग्नोयौ समलिप्तिकौ ग्रहैौ भवत एव । एवमुदयलग्नस्य समानवेगेन चलनमंगीकृत्यानुपा तेन युतिकालः स्थूलोऽयनक्षज डूबकर्मणो: प्रतिक्षणं वैलक्षण्युदुदयलग्नगते रसमा नवेगत्वादिति स्फुटं सिद्धान्तविदुभि:। विजातीययोरुदयलग्नगत्योरन्तरं तद्योगसमं भवतीति धनर्णवासना सर्वा स्फुटाः। भास्करेण प्रहयोर्युर्बसूत्रे युतिरानीता सा च चित्स्वातिव' दिति प्रतिपादयताऽऽचार्येण नांगकृता । यतो नहि चित्र स्व यो ध्रुवप्रोतीयस्यानैकयमस्ति । अतस्तयोर्युवप्रतीययुतेरसम्भव एवं। रात्राविष्टंलग्ना दूनः सषड् भैष्टलग्नाद्योऽधिकः स क्षितिजोपरिगतत्वाद् दृश्यो भवति । एवं ग्रहस्य स्वल्पे शरे क्रान्तिवृत्तीयस्थानासन्न एवोदयलग्नेऽन्यथा स्वेष्ट लग्नाद्यस्योदयलग्न मल्पमस्तलग्नं चाधिकं स एव दृश्य इति युक्तियुक्तं ग्राह्यमिति ॥१३-१८॥ वि. भा-समलिप्तकयोः (समकलयोः) ग्रहयोः (एकस्मिन् कदम्व प्रोत-