पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्तधिकारः ४७१ आचायों का है | मालूम नहीं होता है, सूर्यसिद्धान्त-लल्लसिद्धान्त आदि ग्रन्थों में पठित कालांश आचायांत या श्रीपयुक्त कालांश सदृश ही है, तब पूर्वोक्त मतों के लिये ग्रन्थान्तरों को देख कर निर्णय करना चाहिये कि ये मत किन आचार्यों के है इति ।। ७ ॥ इदानीं ग्रहाणां नित्योदयास्तसाधनं चन्द्रोदये च विशेषमाह। प्रतिदिनमुदयास्तमयावसकृत् तात्कालिकग्रहविलग्नैः सूर्यास्तमयौदयिकौ शीतांशोः पूणिमास्यन्तः ॥ ८ ॥ सु० भा०-तात्कालिकग्रहविलग्नैरसकृत् प्रतिदिनसुदयास्तमयौ साध्यौ अर्थाद्यस्मिन्काले ग्रहोदितघटीज्ञानमपेक्षितं तदा तात्कालिक लग्नं ग्रहोदयलग्नं च कृत्वा पूर्ववत् तयोरन्तरे घटिकाः प्रसाध्य ताभिग्रहै प्रचाल्य तस्य पुनरुदयलग्नं प्रसाध्य तात्कालिकात् स्थिरलग्नात् पुनरिष्टघटिकाः साध्याः। एवमसकृत् । एवम स्तकालज्ञानार्थमस्तलग्नात् सषड्भात् कर्म कर्तव्यम् । एवं पूणिमास्यन्तः प्रथमचन्द्र- दर्शनदिनात् पूणिमापर्यन्तमभीष्टदिने शीतांशोश्चन्द्रस्य सूर्यास्तमयौदयिकौ सूर्या स्ताद्वा सूर्योदयादस्तमयौदयिकौ कालौ साध्यौ अर्थात् सूर्यास्तात् प्राक् पश्चाद्वा कतिघटिकाभिश्चन्द्रोदयोऽस्तो वा सूयोदयात् प्राक् पश्चात् कतिघटिकाभिश्चन्द्रो दयोऽस्तो वेति सर्वं प्रसाध्यमित्यर्थः। अत्रोपपत्तिः । ग्रहा^न्तरकालानयनेन स्फुटा ॥८॥ वि. भा. –तात्कालिकग्रहविलग्नैः प्रतिदिनसमकृत् उदयास्तमयौ साध्यौ अर्थाद्यस्मिन् काले ग्रहोदितघटीज्ञानमभीष्टं तदा तात्कालिकलग्नं ग्रहोदयलग्नं च विधाय तयोरन्तर्गतघटिकाः प्रसाध्य ताभिग्रहचालनं कृत्वा तस्य पुनरुदय लग्नं प्रसाध्य तात्कालिकात् स्थिरलग्नात् पुनरिष्टघट्यः साध्या एवमसकृत् । एवमस्तकालं ज्ञातुमस्तलग्नात् सषड्भास्तलग्नात्कर्म कर्तव्यम् । एवं पूणिमा स्यन्तः प्रथमचन्द्रदर्शनदिनात् पूणिमापर्यन्तमभीष्टदिने शीतांशोः ( चन्द्रस्य ) सूर्यास्तमयौदयिकौ (सूर्यास्ताद्वा सूर्योदयादस्तमयौदयिकौ कालौ साध्यौ) अर्थात् सूर्यास्तात्पूर्वं पश्चाद्वा कियन्मिताभिघंटीभिश्चन्द्रोदयोऽस्तोवा सूर्योदयात् पूर्वं पश्वाद्वा कियन्मिताभिघंटीभिश्चन्द्रोदयोऽस्तो वेति सर्वं संसाध्यमिति ॥ ८ ॥ यदि सषड्भरवितश्चन्द्रोऽल्पोभवेत्तदा प्राक दिने उदयति, तदधिकश्चेत्तदा सूर्यास्तानन्तरमुदयति तत्र कालज्ञानं "ऊनस्य भोग्योऽघिक भुक्त युक्तो मध्योद याढ्” इतिवद् भवति, सिद्धान्तशेखरे श्रीपतिना "उदयति सममस्तं गच्छता