पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः ४६९ पठितेष्टकालांशान्तरकला ग्रहाकंगत्यन्तरभक्ता ग्रहे वक्रिणि तु ग्रहार्कगतियोगभक्ता लब्धा पठितकालांशेभ्य इष्टाधिके उदये गता इष्टापे एष्या दिवसा ज्ञ याः । एवम स्तविचारे पठितकालांशेभ्य इष्टापे गता इष्टाधिके चैष्या दिवसा ज्ञेयाः । लब्धदि नैस्तात्कालिकाभ्यां दृग्ग्रहार्काभ्यां पुनस्तात्कालिका इष्टकालांशः साध्यास्तैः प्राग्वत् पुनर्गतैष्या दिवसा एवमसकृद्यावदविशेषः। अत्रोपपत्तिः । ‘उक्तभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा । स्यादि' त्यादिभास्करविधिना स्फुटा। इहाचार्येण च स्थूलाराश्युदयासवः भ्रा ष्टभूकलामिता अङ्गीकृता इति ।। ७ ॥ वि. भा.-पूवंसाधितैरिष्टकालांशंदृश्यादृश्यैः ( पठितकालांशैश्च ) ऊना- घिकलिप्ताभ्यां ग्रहाकभुक्तयन्तरैक्यलब्धदिनैस्तात्कालिकः ( इष्टकालांशैः ) प्राग्वदसकृद्विधिना युतिवत् ( ग्रहयुतिवत् ) उदयास्तयोर्गतैष्यदिनसाधनं कार्य- मिति । अत्रैतदुक्त भवति । पठितेष्टकालांशान्तरकला ग्रहरविगत्यन्तरभक्ता वक्रिणि ग्रहे तु ग्रहरविगतियोगभक्ता लब्धाः पठितकालांशेभ्य इष्टाधिके उदये गता इष्टापे एष्या दिवसा ज्ञेयाः । अस्त विचारे पठितकालांशेभ्य इष्टापे गता इष्टाधिके चैष्या दिवसा ज्ञेयाः । लब्धदिनैस्तात्कालिकाम्यां दृग्ग्रहार्लम्यां पुनस्ता कालिका इष्टकालांशाः साध्यास्तैः पूर्ववत् पुनर्गतैष्या दिवसा एवमसकृद्यावद विशेष इति ॥७॥ ग्रहोदयो गत एष्यो वेति विचार्यमाणे पठितकालांशेष्टकालांशयोरन्तरं कार्यं ततोऽनुपातो यदि ग्रहरविगत्यन्तरकलायामेक दिनं लभ्यते तदाद कालांशान्तर- कलायां किमित्यनेन समागतदिनैः पठितकालांशेभ्य इष्टकालांशस्याचिकत्वे उदयो गतोऽन्यथा भावी भवति, अस्तविचारे तु पूर्ववदनुपातेन यानि दिनान्या गच्छेयुस्तैः पठितकालांशेभ्य इष्टकालांशस्याल्पत्वेऽस्तो गतोऽन्यथा भावी भव तीति । सिद्धान्तशेखरे श्रीपतिनो "उत्क्तोनधिककालभागविवरं राशेः कलाभिः १८०० र्हतं भक्त प्राचि निजोदयेन वरुणाशायां तदस्तेन च । षष्टिघ्नं ग्रहसूयै भुक्ति विवरेणाप्तं ग्रहे वक्रिते भुक्तधवयेन दिनानि तैरथ मुहुः साध्योग्रहास्तो दयः । ” उदयास्तयोदिनानयनं कथितम् । सिद्धांत शिरोमणौ उक्तेभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात् । अतोऽन्यथा वास्तमयोऽवगम्यः प्रोक्त ष्टकालांश वियोग लिप्ताः ।। भ्राष्टघ्ना द्युचरोदयाप्ताः खेटाक'भुक्तथन्तरभाजिताश्च। वक्रतु भुक्तञ्च कह्ता अवाप्तास्तदन्तराले दिवसा गतैष्याः ॥