उदयास्ताधिकारः ४६७ 'प्राग् दृग्रहः स्यादुदयाख्य लग्नं’ इत्यादि भास्कर कथित विधि से स्पष्ट है । ५ ।। इदानीं ग्रहाणां कालांशानाह । द्वादशभिः शीतांशुः सितजीवज्ञानिभूमिजा नवभिः। ह्युत्तरवृद्धेरन्तरघटिका धड्गुणितकलांशः ॥ ६ ॥ सु० भा० शीतांशुर्दादशभिः कालांशैः। शुक्रगुरुबुधशनिभौमा ह्युत्तरवृद्धे त्रैवभिः कालांशंदृश्यादृश्या भवति । अर्थात् शुक्रस्य नव ९। गुरोः ९+२=११ ।। बुधस्य ११+२=१३। शनेः १३+२= १५। भौमस्य १५४२=१७। पूर्व या ग्रहार्चान्तरघटिकाः साधितास्ताः षड्गुणिताः कालांशा इष्टा भवंति तैरिष्टैः कालांशैरित्यग्रे संबंधः । अत्रोपपत्तिः। कालांशसाधने आगमप्रमाणम् । वस्तुतोग्रहाणां नीचोच्च वशाद्रविग्रहांतरसूत्रवैलक्षण्याच्च वेधेनापि गोलयुक्त्या स्थिराः कालांशा असम्भवा एवेति कमलाकरमतं तत्त्वविवेके तथ्यमेवेति ज्योतिविद्भिश्चिन्त्यम् । ‘दनन्दवः शैलभुवश्च शक्रा’ इत्यादि भास्करविधिना चन्द्रादीनां कालांशाः। चं. १२। भ. १७ । बु. १४। गु. ११ । शु० १०। श७ १५। आचार्योक्ताः चं. १२। भौ० १७ । बु० १३ । गु० ११ । शु० ९। श० १५ । द्वयोर्मतयोधंध शुक्रकालांशयोरेककमन्तरम् ॥ ६ ॥ वि. भा.-शीतांशुः (चन्द्रः) रवित इत्यध्याहार्यम्द्वादशभिरंशैरदृश्यो दृश्यश्च जायते, सितजीवज्ञशनिभूमिजाः ( शुक्रगुरुबुध शनिमङ्गलाः ) दुयुत्तर वृद्धर्नवभिः, अन्तरघटिका षड्गुणितकालांशैरर्यादुदयलग्नरव्योरन्तरे वा ऽस्तलग्न रव्योरन्तरे घटिकाः साध्यास्ताः षड्गुणाः कालांशा भवेयुरेभिस्ते दृश्या अदृश्याश्च भवन्ति । यथा शुक्रस्य नव ९, गुरोः=९+२=११, बुघस्य=११+२=१३, शनेः=१३+२=१५, मङ्गलस्य=१५+२=१७, इति ॥ ६ ॥ रवितो यावदन्तरेण ग्रहाणामुदयोऽस्तमयश्च भवति तेऽन्तरांशाः (कालांशाः) प्राचीनैरसकृद्वेधेन ज्ञात्वा पठिताः परं वस्तुतो ग्रहाणां नीचोच्चवश द्रविग्रहान्तरसूत्रवैलक्ष्यण्याच्च वेधेनापि कालांशः स्थिरा न भवितुमर्हन्त्येत द्विषये सिद्धांततत्त्वविवेके कमलाकरेण युक्तियुक्त प्रतिपादितमस्ति, अथ “दन्नन्दवः शैलभुवश्चत्यादिॐ भास्करकथितविधिना चन्द्रादि ग्रहाणां
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८४
दिखावट