पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः ४६३ इदानोमाक्ष दृक्कमनयनमाह विषुवच्छायागुणिताद्विक्षेपाद् द्वादशोद्धूतात् सौम्यात् फलमृणं घनं धनमृणं याम्यादुदयास्तमयलग्ने ॥४।। सु-भा.-सौम्यात् शरात् फलमुदयलग्नसाघने फलं कलात्मकमृणमस्तलग्न साघने चं धनं याम्याद्विक्षेपाच्च फलं क्रमेण धनमृणं ज्ञेयं पूर्वसर्धितायनदृक्कर्म संस्कृतग्रहे तदोदयास्तलग्ने भवतः । अथ तैः अत्रोपपत्तिः । क्षितिजे स्थूलादक्षज्यासममक्षवलनं कदम्बाभिमुखं गणिता- गतशरं च स्वल्पांतराद् ध्रुवाभिमुखं स्पष्टशरं च प्रकल्प्य ‘लम्बज्ययाऽक्षतं चेत् स्याद्वलनं कि स्फुटेषुण’ इत्यादिभास्करविधिना त्रिज्यासमां द्युज्या राश्युदयासून् ज्या अ• शविर श खस्खाष्टेन्दुसमा नू प्रकल्प्याक्षजद्वकर्मकलाः === ज्यल १२ शरे तु याम्योत्तरे क्रमविलोमविधानलग्न' मित्यादि भास्करोक्तेन उत्तरे शरेऽक्षजह कर्मकलाभिरून दक्षिणे शरे युतः कृतायनफलः खेट उदयास्यलग्नं भवति । अस्तलग्नसाधने तु सौम्ये शरेऽक्षजहक्कर्मकलासहितो याम्ये रहित: सषड्भः कृता- यनफलः खेटो ग्रहे पश्चिमक्षितिजेऽस्तंगते प्राक्षितिजे यल्लग्नं तदस्तलग्नं भास्करमते । इहाचार्येण तस्मात् षड़शिं विशोध्य पश्चिमक्षितिजे प्रहेऽस्तंगते यदस्तलग्नं तदेव ग्रहास्तलग्नं कल्पितमिति ॥४॥ वि. भा.-विषुवच्छाया (पलभा) गुणितात् विक्षेपात् (मध्यमशरा) द्वादशभक्ताट्टफलं कलात्मकं सौम्यच्छरात् तदुदयलग्नसाधने ऋणमस्तलग्न साधने च धनं याम्याच्छरात् फलं क्रमेण पूवंसाधिताऽयनदृक्कर्म संस्कृतग्रहे वनमृणं कायं तदोदयास्तलग्ने भवेतमिति ॥४॥ यदा ग्रहस्थानं क्षितिजे भवेत्तदा बिम्बं क्षितिजादघ ऊर्वं वा भवेत् ।स्थानो परिगतं ध्रुवप्रोतवृत्तं बिम्बकेन्द्रोपरिगतं ध्रुवप्रोतवृत्तं च कार्यं बिम्बकेन्द्रापर्यंहोरात्र वृत्त (बिम्बीयाहोरात्रवृत्त) कार्यं तदा तयोः स्थानबिम्बकेन्द्रगतध्रुवप्रोतवृत्त योरन्तर्गतं बिम्बोयाहोरात्रवृत्तोयवापमाक्षदृक्कर्मसंज्ञकं भवति । अथ स्थाना- टुिम्बीयाहोरात्रवृत्त यावत्स्थानगतश्रुवश्रोतवृत्तं स्पष्टशर एको भुजः। बिम्बीयाः होरात्रवृत्तक्षितिजवृत्तयोः सम्पातात्स्थानं यावत् क्षितिजवृत्त द्वितीयो भुजःबिम्बी याहोरात्रवृत्तक्षितिजवृत्तयोः सम्पातात्स्थानशतध्रुवश्रोतवृत्तोपरिलम्बवृत्ते तृतीयो भुजः एतत्त्रिक्षुषं सरलजात्यं स्वीकृतमाचर्येण अत्र स्थानलग्नकोणोऽक्षांश्च