पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकार: वा. भा. - प्राणैः षड्भिराक्ष विनाड़िका भवति । ऋक्षारणामियमृक्षारणां विषुवन्मण्डलसंवन्धिनोति यावत् । यतो विषुवन्मण्डलमेव प्राणेन कलामुदेति नापमण्डलमथवा सर्वस्यैव च नक्षत्रस्य स्वोदयाद् यावत् षष्टिघटिका भवन्ति, अग- तिमत्त्वात् । ग्रहाणां पुनर्गतिवश्याद्भिद्यते। अतः शोभनमुक्तं विनाड़िकार्क्षी पड्भि: प्रारगर्भवति इति । प्रारणश्च स्वस्थेन्द्रियस्य स्वपतो जाग्रतो वा गृह्यते । न रोगाद्यप हृतस्य | तासां विनाड़िकानां षष्ट्या घटिका घटिकानां षष्ट्या दिवसो भवति । दिवसानां त्रिशता मासो भवति । मासैद्वदिशभिः वर्षो भवति, एवं कालविभागो विनाडिका, नाडिका, दिवसः, मासो वर्षान्तः क्षेत्रविभागोऽप्येवम् यथा विनाडिकानां षष्ट्या घटिका | एवं विकलानां षष्ट्या लिप्ता भवति । यथा घटिकानां षष्ट्या दिवस एवं लिप्तानां षष्ट्यांशः, यथा दिवसानां त्रिशता मास एवम्मासानां त्रिशता राशि:, यथा मासैदिशभिः वर्षमेवं द्वादशभीराशिभिर्भगरण इत्यर्थः । अत उक्तं विकलालिप्तांश राशिभगरणान्तः क्षेत्रविभा गतुल्य: कालेन विनाडिकाद्येन । अत्र विभागकल्पनया तुल्यत्वमुच्यते । अथवा कलया विनाड़िकास्ता: क्षेत्रे षड्लिप्ता भवन्ति विषुवन्मण्डले । एतद् गोले प्रदर्शयेदिति । वि. भा. - षड्भिः प्रार: ( षड्भिरसुभि: ) विनाडिका ( नाक्षत्री विघटिका ) भवति, विनाडिका षष्टय का घटिका (एको दण्ड :) घटिकाषट्य। (दण्ड- षष्ट्या) दिवस: (एकं दिनं ) दिवसानां (दिनानां) त्रिशता (त्रिशत्तुल्येन) मासो भवति, द्वादशभिः मासै: वर्षं (सौरवर्षं) भवति, विनाड़िकाद्येन (पलदण्डदिनमास- वर्षेण ) कालेन तुल्यो विकला लिप्तांशराशिभगरणान्तः (विकला-कलांश राशिभगरणः) क्षेत्रविभागो ज्ञेयोऽर्थाद्यथैकवर्षस्य मासदिनादयो विभागास्तथैव भगरणस्य राज्यं शादय इत्यधो विलिख्य प्रदर्श्यते - , - ६ प्रसवः == १ पलम् ६० पलानि १ घटिका एतत्सदृशा एव क्षेत्रीय (कक्षा) विभागा यथा- ६० विकला:: = १ कला = ६० घटिकाः = १ दिनम् - ६० कलाः = १ अश: ३० दिनानि = 2 मासः १२ मासा: = १ वर्षम् ३० अंशा: = १ राशिः १२ राशयः =१ भगरणः सिद्धान्तशिरोमणी भास्कराचार्यरण 'क्षेत्रे समाद्येन समा विभागाः स्युश्चक्र- राश्यंशकलाविलिप्ताः' इत्यनेन सिद्धान्तशेखरे श्रीपतिना च 'एवं चक्र शलिप्ता- विलिप्तास्तुल्या: क्षेत्रेऽनेहसाऽन्दादिकेनेत्यादिना ब्रह्मगुप्तोक्तानुरूपमेव कथ्यते, किन्तु 'अक्ष्णोनिमेष: कथितो निमेषस्त्रशद्विभागोऽस्य च तत्परा स्यादि'त्यादिना श्रीपतिना, योऽक्षणनिमेषस्य खरामभागः स तत्परस्तच्छतभाग उक्त' इत्यादिना भास्करेण च ब्रह्मगुप्तोक्तादधिकं कथ्यते, वटेश्वरसिद्धान्ते निमिषादेर्या परिमितयः परिभाषितास्ततो भिन्ना एवोपर्युक्ताचार्यकथिताः । सर्वान् विलोक्य विवेचका ¨गाणितिका विवेचयन्त्विति ॥ १६ ॥