पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकार १४६ इदानीं चापज्यनयनमाह (लप्तास्तत्त्वयमहृता लब्धज्या ज्यान्तराहताच्छेषात् । तिथिकृतिहृतात्फलयुता लब्धज्या ज्याग्रहणमेवम् ॥१०॥ व. भा. --इदानीं इष्टस्य धनुषो ज्याकरणायार्यामाह । इष्टचापस्य यस्य ज्याकत्तुं मिष्यते तत्सम्बन्धिन्यो लिप्ता गृह्यन्ते, तेनायमर्थः । लिप्ता- स्वयमह्वः कायस्ततो लघ्वांकसमसंख्या ज्या स्थापयितव्या ज्यान्त रहृताच्छेषात् । इति लब्धज्यायाः तदग्रतो वर्तमानज्यायाश्च यदन्तरं तज्ज्यान्तरं तेन हताच्छेषात् । प्रथममेव तत्वयमैर्भगे हृते यदवशेषं तच्छेषमुच्यते । तस्मात् तिथिकृतिहृतादिति, तत् यमैरेव हृतादित्यर्थः । ततो यदवाप्तं फलं तेन युता लब्धज्या काय । एवं ज्यग्रहणमिष्टचषोत्तमोत्क्रमज्यामयीत्यर्थः । एतदुक्तं भवति वक्ष्यमाणविधिना ज्याकेन्द्रं कार्यम् । तल्लिप्तादिकेन्द्रं कृत्वा तत्त्वयमवभजेत् । लब्धकसमां ज्यां स्थापयेत् । मनुयमला मुनियस्वेदा इत्यादि गणनया यदि क्रमेण ज्याग्रहणमथोत्क्रमेण तथा मुनयोऽष्टयम इत्यादिकया गण नया ज्यां स्थापयेद् । शेषं विकलसंशं भवति । ततो लव्धज्याया पुरतः स्थितया सह्यान्तरे कृते यदवशिष्यते । समगुणकारो भवति, तेन विकलं संगुण्य तत्स्वयमेव भजेत् । लब्धं लिप्तादिपूर्वस्थापितज्यायां संयोज्य ज्या भवति क्रमोत्क्रमेण च ज्याग्रहणमेवं कार्यं । अत्रेयं वासना गोलाध्याये प्रदर्शितविधिना वृत्तक्षेत्रं दिगङ्कितं राश्यष्टांशेष्टकानित्यादिनोक्तवत् परिलिख्य प्रदर्शयेत् । तत्र खखषडिन्दुघनसंख्यापरि णाहे षण्नवतिकृते तवयमा भवन्ति। अतएवेष्टचापलिप्तानां तत्त्वयमा भागहारः। तस्मात्तत्त्वयमसंख्ये चापखण्डलके ज्यरेख स्थिता, यावद्गुणश्च तत्त्वयमा लिप्ताभ्यो विशोध्यन्ते । तावत् संस्थज्या तासां शुद्धलिप्तानां ततो भवति ततः शुलिप्ताभित्रैराशिकं यदि तत्त्वयमसंख्याभिलिप्ताभिर्लब्धाः भुक्तज्यायोज्यज्ययो- रन्तरतुल्यं ज्याखण्डलकं भवति, तदाभिरिष्टलिप्ताभि: किमिति लब्धफलेनोपचोयते । पूर्वलब्धा ज्या यतः तद्रेखाक्रान्तं चपखण्डमतिक्रम्य पुरतः स्थितो ग्रहादिकस्तदव विज्यया वास्माकं प्रयोजनमुपपन्नं ज्याग्रहणमेवेति । वि. भा.ज्यासां लिप्तानां (कलानां) ज्याः साध्यास्तास्तत्त्वयमहृता (२२५ एभिर्भाज्याः) लब्धज्या (लब्धसंख्यकगतज्या बोध्याः), शेषात् ज्यान्तरा हतात् (गतैष्यज्ययोरन्तरगुणितात्) तिथि १५ कृतिह्ताव२२५ एभिर्भक्तान्) यत्फलं (लब्धं) तेन युता लब्धज्या (गतज्या) कार्याःएवं कृते ज्याग्रहणं (इष्टज्यामानं) भवेदिति १०। वृत्तपादे २२५, २४२२५’, ३४२२५'~~ ----Sripathy K N (सम्भाषणम्) ०७:२२, ११ दिसम्बर २०१७ (UTC)२४४२२५ ' चतुर्विंशतिसंख्यका ज्याः पूर्वं पठिताः सन्ति, पदादिबिन्दुतो यदि द्वयोरुक्तयोपथी