पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
7
ब्रह्मकाण्डः

यसु भोगव्यवस्थानादिति, तत्रोच्यते-कल्पितादपि भेदाद्भोगव्यवस्था सिडेरसारमेतत् । तथा हि- एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणेऽणुप- रिमाणे वा कल्पित भेदनिबन्धना भोगव्यवस्था दृश्यते—पादे मे वेदना , शिरसि मे वेदना —इति । न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः अज्ञत्वात् ; शरीरपरिमाणात्मवादिनोऽपि नावयवा एव वेदनाभाजः आत्म नस्तद्विरहप्रसङ्गात् । स्यादेतत्---ऐकात्म्ये 'तद्वदेव देहान्तर भोगानुसंधानं स्यात् । अन्यदिदानीमेतत् । अस्ति तावद्भोगव्यवस्था । अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेंदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनु संदधातीति समानम् ; तया मणिकृपाणदर्पणादिषु मुखादीनां वर्णसंस्थानभेद व्यवस्थानमुपलभ्यते भेदाभावेऽपि । एवं च सुक्तसंसारिविभागोऽप्युपपकः; तथा हि--एकोऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानः तत्र ‘बड इग इतरत्र मुक्त इव ‘च गम्यते ; यथा मलीमसे दर्पणतले मलीमसं मुखं वि शुठे विशुद्धे दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् । स्यादेतत् कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मः न वस्तु व्यवस्थापयितुमलम्; न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि ; न चोपचरितात् कार्यमुपपद्यते ; ऽन खुपचरितामिभावो माणवको दहति । उदाहृता तु व्यवस्था । सत्यम्; विप्रमो हि सः । अत्रापि विभ्रमत्वं न दण्डवारितम् ; कुपितोऽपि चाहैि. दंशो मरणकार्याय कल्पते, प्रतिर्यकथा प्रकाशकार्याय ।

यदपि दृश्येनैव द्रष्टुरनुमानाद्धृदृश्ययोर्भदः, दृश्यस्य च सुखादिभेदोप लब्धेर्नानात्वमिति, तदप्यसत्; न द्रष्टर्यप्रकारो यतो ‘दृश्यस्य सिद्धिर् स्तीत्युक्तम् । दृश्यभेदोपलब्धश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादेत व- क्ष्यते । ढक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात्; न च स्वात्मनि वृत्तिविरोधः ; प्रदीपवत् प्रमाणफलवत्युक्तम् । अपि च एकत्व एवायं द्रष्टुंदृश्यं'भावोऽ-

वकरुपेते, द्रष्टुरेव चिदात्मनस्तथातथा विपरिणामाद्विवर्तनाद्वा; नानात्वे तु


A तद्विदेव देहान्तरे-–E

A and coait भोग.

बन्ध इव-B ; था एव C

A and B omit च

नोष-O

दृश्यसेद्धि-B and C

भाग-B;विभाग—A

A mit वि