सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
5
ब्रह्मकाण्डः

नन्दशब्दःयथा-स्थूलाभावाद्युपाधयः “ 'अस्थूलमनण्वह्खम् " इत्यादयः शब्दाः । न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्यात् । कथं चापर्यायशब्दाभिधेय एकत्वम् ? तस्म/हुःश्वोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति

अत्रोच्यते--विशिष्टस्याहादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्द द्वयेन प्रतिपादनान्न दोषः ; यथा चच -'प्रकृष्टः प्रकाशः सविता–इति । न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् ; अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः; न हि प्रकर्षोऽन्यः प्रकाशरूपात् सवितरि, न "प्रकाशरूपो वा प्रकर्षात् , अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते । तथा ५८ विज्ञानमानन्दं ब्रह्म ” इत्यानन्दभेदो विज्ञानभेदो वा बलरूपमिति शब्दद्वयेनावगम्यते । परमतामप्यस्य केचित् साधनपरतन्त्र्यलक्षणायाः 'क्षयि तालक्षणायाश्च दुःखताया अभावान्मन्यन्ते । तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणकेऽर्थे नानुमन्यन्ते ; न हि स्वरूपतः परमतासंभवे विरोध्यसंस र्गादुपचरिता सा युक्ता “भवितुम् । तस्मादात्मप्रकाशप्रकृष्टानन्दस्वभावमेव बलेति युक्तम् । एवं च लौकिकानन्द ‘एतस्य मात्रेति युज्यते, अवच्छेदात्; दुःखनिवृत्तौ तु दुर्योजमेतत् । इतश्रानन्दस्वभाव आरमा, परमेमास्पदत्वा । श्रूयते हि "परप्रेमास्पदत्वम् -तदेतप्रेयः पुत्रात् ” इति । मतीयते च ; तथा हि--सर्वस्येयमात्माशीः कृमेरपि ‘ मा न 'मूवम् , भूयासम् ’ इते । "सा च प्रियेऽवकल्पते ; प्रेमा च सुरमनि; न दुःखे, नोभयरूपरहिते, दोषात् ५उपेक्षणच । अन्ये तु सुषुते ‘सुखमहमस्वाप्सम्' इति परामर्शादा

मनि सुरवानुभवमाहुः; न चाननुभवे परामरों एवं स्यात् , ‘सुषुप्तभ्युप-


Brh. 3-8-8.

स्य इळा –A and B.

नल--A and B.

प्रकृष्टप्रकाशः-A

६ प्रकाशरूपं प्रकर्षात्-A d B.

8 Brh. 3-9-28.

7 B O omits

१ आश्रयितुम्-Aand B.

१ एकस्य—O.

10 omits तु

11 च--B,

परप्रेमास्पदं--C.

13 Brh. 1.4 8

येताछ-

15 सापि-.B.

उपेक्षणाय--G.

सुषुप्तयुपगम-0,