परयोरपि द्वयोरवस्थयोस्तर्हि सुखी इतरत्र दुःखीत्यनुभवविरुद्धमापद्यत ; अप्राप्तश्च स्मरणविपरिवर्ती विषयः कामस्योद्वोधकः, प्राप्तो निवर्तकः ; प्राप्तस्योद्वोधकत्वे न ततो निवृत्तिः स्यात् ।
न च यत्र कामस्तत्र सुखम् , मनोरथशताथैितस्याप्युपभोगेन कस्य चिदुःखित्वदर्शनात् । सुखपूर्वकस्तु कामःअनुभूततद्भावे तद्दर्शनात् । यापि काचिदननुभूतेऽपि जातिविशेषभाजां कामप्रवृत्तिः सापि . प्राग्भवीयानुभव- निबन्धना । यथा च कस्यचित् कचित् कामो जातिभेदादिनिमित्तः, तथा किंचित् कस्थमिव सुवमिति नाव्यबसा। अपि च कामनिवृयापि केचिद्यन्ते, तदभावे विषयोपभोगसामथ्र्याभावात् । न तर्हि निवृतुकामाः ; निवृत्तकामा विषयं प्रति, तस्य कुतश्चिन्निमित्तादनुपनोग्यत्वात् । किमिति तर्हि दूयन्ते ? अनुभूतचरस्य तजन्मनः मुबस्यानातेः; यथा पित्ताद्युपहतेन्द्रिया विशिष्टेभ्योऽ न्नपानेम्यो निवृत्तकामाः, तथैव कामनिवृथा तप्यन्ते; तत्रानुभूतचर 'तज्जन्मा- होदविच्छेदान्नान्यो हेतुः । तस्मात् प्रत्यात्मवेदनीयसुस्वप्रत्याख्यानमयुकम् । सुरवसङ्गिजनेपच्छन्दनाय तु तत्रभवाझिर्वर्णितमिति पश्यामः । तदेवं दुःखनिवृत्तेरन्यत् मुखम् । स चानन्दशब्दस्य मुख्योऽर्थः । शब्दप्रमाणके च यथाशब्दं प्रतिपत्तिधृक् ।
न च रागनिषन्धना तत्र प्रवृत्तिः । न हीच्छामात्रं रागः । अविद्या क्षिप्तमभूतगुणक्षिनिवेशं रागमाचक्षते । तच्चदर्शनवैमल्यातु तवे चेतसः प्रसादोऽभिरुचिरभेच्छा न रागपले व्यवस्थाप्यते, यथा संसारासारतातव- दननिष्पन्नो नोद्गतते वेषपक्षे ; अन्यथा सर्वदुःखातिगेऽपि तवे तद्देयनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् । अपि च दृष्टपरोत्कर्ष रागिभ्योऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागामकः, तथेहापि भविष्यति । कथं च तत्र समीहितेतरविषयामिष्वङ्गनिषेघः ? सर्वनिषेचेऽ प्रवृत्तिप्रसङ्गात् ; तथोत्तमसुखरागादितरस्मादुपनतांदपि निवृत्तिः । तथा चोक्तम् —« *कामात्मता न प्रशस्ता न चैवेहास्यकामता ” इति । स्यादेतत्-आनन्वशेद्दाणि संवेद्यः, कर्तेरन्यत् कर्मेति हैतप्रसङ्गः ;
कर्तृकर्मभावभ न क्रियां करणं चान्तरेण यतः; 'ततः ५ 'आनन्दं बल ”
तथान्या--A. १ अभिरतिः-A |
3 Manu. 2-2. A and condit ततः |
3 Bgh. 8-2-28, |