पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ओम्

ब्र ह्म सि द्धिः

म ण्ड न मि श्र वि र चि ता

आनन्दमेकममृतमजं विज्ञानमक्षरम् ।
असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ १ ॥

 वेदान्तेषु विप्रतिपद्यन्ते विपश्चितः – केचिदप्रामाण्यं मन्यन्ते, आत्मनः प्रमाणान्तरसिद्धत्वे तेषामनुवादकत्वात् असिद्धत्वे संबन्धा[१]ग्रहणात्, अपदार्थत्वे वाक्यस्याविषयत्वात्, प्रवृत्तिनिवृत्यनुपदेशे चापुरुषार्थत्वात् । अन्ये तु प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेनाप्रामाण्यमेवाहुः । अन्ये तु कर्मविधिविरोधात् प्रत्यक्षादिविरोधाच्च श्रुतार्थपरिग्रहे उपचरितार्थान्मन्यन्ते । तान्निरासायेदमारभ्यते – आनन्दमिति । परां च देवतां गुणाभिधानलक्षणया स्तुत्या कायदाञ्चन:प्रहृतालक्षणया च प्रणत्या पूजयति ; प्रकरणार्थं चोपक्षिपति— विप्रतिपत्तिनिरा[२]करणमुखेन वेदान्तानामेवंभूतेऽर्थे प्रामाण्यप्रतिपादनात् बतो भवत्येषोऽपि प्रकरणार्थः ।

 अत्र केचित् - आनन्दात्म[३]कत्वे ब्रह्मणः, आनन्दरागान्मुमुक्षुप्रवृत्तिः स्यात् ; रागनिबन्धना च प्रवृत्तिः संसारबीजमिति न मुक्तये स्यात् ; शान्तस्य दान्तस्य चात्मनि दर्शनमुच्यते; न चानन्दरागात् प्रवर्तमानः शान्तो भवति । तस्मात् सकलदुःखातिगे ब्रह्मतत्त्वे दुःखेभ्य उद्विग्नः सुखेभ्यश्च [४]वीतरागः प्रवर्तमानो मुच्यते । आनन्दश्रुतयश्च सकलदुःखातिक्रममेवाहुः; दृष्टो हि क्षुद्दुःखादिनिवृत्तौ सुखशब्दः; सैव च सुखमित्यन्ये । न चाश्मादौ प्रसङ्गः, प्रत्यग्वृत्तेरुपलभ्यमानायाः सुखत्वात्, तद्विशिष्टात्मोपलब्धेर्वा । तान् प्रत्याह–आनन्दमिति । न तावद्दुःख निवृत्तिरेव सुखम्, युगपत् सुखदुःखयोर्दर्शनात् संतापवतः [५]शीतह्रदे निमग्नार्धकायस्य । अथ


  1. ग्रहात्-C.
  2. करणेन - A.
  3. त्मत्वे - C
  4. विगतरागः-C.
  5. शीतनिमग्ना - B.