250 बक्षसिडेव्याख्या अगृहीतायां शुक्तौ रजतग्रहाभिमानो भवति । किंचाभिन्नस्यात्मनः प्रपञ्च- रमना भेदश्चेन्न प्रकाशेत्, ततः कुतो मेदग्रहः? ननु न भेदग्रहःकिंतु तदभिमान इत्युक्तम् । सत्यमुक्तम्; किंतु मेदग्रहादन्यो नाभिमानो नाम निरूप्यते । अते भेदग्रह एवासौ । स च भेदाप्रकाशने न युक्त इति सूक्तम् । किंच अद्भिन्न आत्मतत्वे प्रपञ्चत्मना भेदाभिमानो विपरीतज्ञान मविवेत्यस्मत्पक्षे परित्यज्यामिन्नस्यारमतवस्याभेदाग्रहे भेदग्रहाभिमानमङ्गी कुर्वता विपरीतयांतिरेवाङ्गीकृता । अतः किं तेन परिहृतम् तस्मात् लयविक्षेपभेदश्च न स्यादग्रहमात्रके’ इति सूक्तम् । वेदान्तानां ज्ञानविधिपरत्वे अपहतपाप्मादिरूपमात्मनो न सिध्यति; यतो नात्मखरूपेणावभासकं ज्ञानमित्युक्तंम्; तत्र चोदयति-नन्विति । अरूपेणानात्मरूपेण अपहतपाप्मत्वादिना आत्मनोऽवभासे दृष्टे प्रयोजना भावाददृष्टकल्पना स्यात् । अपहतपाप्मादेरात्मरूपस्याबभासे तत्सिद्धिर्नाम दृष्ट फलम् । यतोऽन्यत्रापि ज्ञेयखरूपसिद्धिरेव ज्ञानफलम् । न च दृष्टफले संमव- त्यदष्टकर्पनोचित । तस्मात् ज्ञानविधिपरत्वेऽपि वेदान्तानामात्मनोऽपहत- पाप्मादिरूपसिद्धिरित्यर्थः । अत्रोचरमाह--न दृष्टमात्रादिति । दृष्टमात्रा धतः कुतश्चिदपुरुषार्थादपे दृष्टान्न दृष्टार्थं ज्ञानं भवति ; किंतु पुरुषार्थन विना विधेरनैराकाङ्क्ष्यात पुरुषार्थानुगं पुरुषार्थसंस्पर्श तत् दृष्टं फलं भवति । न चापहतपाप्मादेरात्मरूपस्यानामरूपस्य वावभासे पुरुषार्थस्य भावो भिद्यते विशिष्यते ; उभयत्रापि पुरुषार्थफलत्वमविशिष्टमित्यर्थः । अविचेषं प्रपश्च- यति-यथेति । यथा प्रपञ्चशन्यत्वपक्षे अपहतपाप्मादिविशुद्धद्वयात्मतच्चे ज्ञानेन प्रकाशिते शोकादिदुःखस्य कर्मणां रागादेश्च केशस्य हानं त्यागः तथापहतपाप्मादाबतवेऽपि ज्ञानेन प्रकाशिते तेषां हानं भवेदित्यर्थः । ५ तस्मातृतमभूतं वा यद्यदेवाति माव्यत । भावनाफलनिष्पत्तौ स्फुटकल्पा च धीः फलम् । इति । यथा वृत्तौ जीवन्मुक्तः स मनोरपि संमतः। तथा चाह- ५ कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव भूतेषु एतन्मुक्तस्य लक्षणम् ॥“ इति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२३
दिखावट