पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातावनालम्बनं स्यादिति परोक्तो दोषः परस्याप्यस्ती स्याह-अनालम्बनेति । यथ अन्यथाख्यातौ शुक्तेराकारादाकारान्तरस्य रजतस्य समर्पणत् ज्ञानस्यानलम्बनतापत्तिः, एवमख्यातिवादिनस्तवाग्रहणेऽपि अमे शुक्तिखरूपस्य विशिष्टस्य ‘इदम्’ इति ज्ञानेऽनर्पणात् अनालम्बन तपत्तिर्भवेदित्यर्थः । अथ तत्र विशेषानर्पणेऽपि 'इदम् ' इति ज्ञानेन शुक्रभावस्त्वादिसामान्यांश्स्य कस्यचिदर्पणमस्ति ; स च शुक्तेः खाकार इति तस्मिन् गृह्यमाणे शुक्तिरेवालम्बनमापन्नेति “ विशेषांशग्रहेऽपि न निरालम्बनतापत्तिरित्युच्यते, तदन्यथाख्यातावपि तुल्यम् , यतस्तत्रापीद- मंशख्यातिरस्येवेत्याह–कस्यचिदिति । अन्या व्याख्या– अथ कस्य- चिदन्यस्य घटादेर्वस्तुनः खेन रूपेण ग्रहणमस्तीति कस्यचित् शुक्ति वस्तुनः शुक्तिरूपेणानर्पणेऽपि न निरालम्बनमित्याशङ्कयाह---ऑस्यचिदिति । विकल्पमात्रमेतत् । स्वाकारवादित्यस्यानन्तरं ननलम्बनत्वम् ’ इति योज्यम् । केषांचिदवाकराणामिति शुलभा|खरत्वादीनामिति प्रथमव्याख्यायां तुल्यत्वहेतुः । केषांचित् घटादिवस्तूनामवभासनादिति च द्वितीयव्याख्यायां तुल्यस्वहेतुः । यद्द केषांचिदिति घटादिवरतूनां खाकाराणामिति च शुक्लभास्वरादीनामवभासनादिति व्याख्याद्वये हेतुद्वयमुक्तम् । अथ तत्र विवेकाग्रहणे तच्चक्षुःसंयुते न तथा आलम्बनमिष्यत इत्युच्यते, परस्याप्यन्यथाख्यातिवादिनः तत्रान्यथाख्यातौ एवं चक्षुःसं- युक्तस्य नालम्बनत्वमिष्टम् । अथ तत्रान्यथख्यातौ तथा स्थितेः निरा लम्बनस्य स्थितत्वात् सर्वत्र सम्यग्ज्ञानेष्वपि तथाभावो निरालम्बनता। स्यादिति शङ्कयेतेत्युच्यते, ततस्तवापि विविक्तशक्त्यग्रहणे निरालम्बनता दृष्टेति सर्वत्र शङ्कत एतद्यथेत्यादिना विवृतम् । तत्र विपर्ययदर्शनेऽ निमित्तत्वनिरालम्बनत्वाद्यथा सम्यग्ज्ञानेऽनिमित्तता निरालम्बनता शङ्घते, तथा शक्त्यग्रहे सा निरालम्बनता निरूपिता सर्वत्र घटादिग्रहेऽपि शङ्कयेत, अतस्तवापि सर्वत्रनाश्वसस्तुल्य इति भावः । अथ घटादिज्ञाने ज्ञाना देवार्थपरिच्छेदकादर्यसिडेरर्थस्य निमित्तत्वमलधनस्वम् , एतदन्येषामप्यन्यथा ख्यातिवादिनां न विशिष्यत इत्यर्थः । किंच रजतख्यातिरपि शुक्तिमेवा लम्बते, सैव हि रजतारमना गृधते । न चान्यथालस्ब्यमानेऽर्थे ज्ञानस्य 0