पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

284 द्रसिद्धिव्याख्या विवेकाग्रहः, अत्र न’ इति विवेकस्य निर्णयस्य यत्कारणं परस्येष्टं तद्वि पर्ययदर्शनेऽपि श्रमे न दण्डैर्निवार्यते । अतो विपर्ययदर्शने प्रमाणतदा 146-15 भासविवेकान्नाभासव्यभिचारेण प्रभाणे ऽप्यनाश्वास इत्यभिप्रायेणाह- आपि चेति । अत्र हेतुमाह- विपर्यय इति । यतः कार्यसामथ्र्यप्रतिघातिनो दोषा इति यदुक्तं । तद्विपर्यये भ्रमेऽपि सुतरां प्रकल्पते घटते । कथमि त्यपेक्षायामाह-दृष्टेति । अग्रहणे भ्रमे दोषेभ्य इष्टस्य ग्रहणाख्यकार्यस्य निरोधमात्रं भवति । विपर्ययलक्षणे तु भ्रमे न केवलं तवप्रहणस्य दोषेभ्यो निरोधः; अपितु तत्प्रतिपक्षविपरीतज्ञानोदयश्च भवति । तेन तत्वग्रहणाख्यमिष्टं कार्यस्वरूपतः प्रतिपक्षोत्थापनेन च दधैरत्यन्तं निरुद्धमित्यतिशयार्थः । तस्मादग्रहणे भ्रमे दोषाणां सस्वादग्रहः; दोषाः सवाच्च मह इति ग्रहप्रहविवेका! यः , स विपर्ययलक्षणेऽपि भ्रमे घटत इत्याह-तस्मादिति । यत्र दोषोऽसन् , तत्रादुष्टादिन्द्रियात् तत्त्वग्रह इत्याशङ्कानिवृत्तिरित्युक्तम्; तदूषयति--दोष इतेि । । हेतुमाह-- अत्र न हीति । यदि कारणसद्भावे कार्यसत्ता नियोगतो नियोगेन स्यात् , ततो निदधेन्द्रियसद्भावे तदवग्रहस्यकार्यभवादप्रहशङ्का निवर्तेत, न त्वेतदस्ति । तथाहि-सत्यपि निदधे चक्षुषि विर रिते ज्ञानानुदयो दृश्यते । न च चक्षुमनं कारकम् , अपितु सामञ्यपि; सा च तत्र नास्तीति कार्यानुदय इति वाच्यम् । यतः प्रत्येकवर्तिनी कारकशक्तिः, न समाहरवर्तिनी । कारकाणां हि कार्यसिद्धये समासःन मिलितानां करणत्वम् । तस्माच्चक्षुरपि कारणम् । न च तस्मिन्नष्टेऽपि कार्य- सिद्धिरिति सूक्तम् --न हि कारणसद्भावे ' इति । अतो न परस्य ग्रह ग्रहविवेकसिद्धिरिति भावः । किंच एवं सति विपर्ययः स्यादित्याह--प्रत्यक्षमिति । प्रत्यक्षया संविया कारणमनुमीयत इति युक्तम् ; परस्य तु प्रत्यक्ष संवित्तिलक्षणं कार्यमदुष्टेन करणेनानुमीयत इति विपर्ययः । अन्यथाख्यातौ तु दोषस्य हेतोरभावात् कार्यस्याभावो युज्यते । अतस्तत्र दोषभावात् विपर्ययदर्श- नाख्यफलाभावानुमानं युक्तमित्याह-विपर्यय इति । तथा विपर्ययलक्षणात् फलाद्धेतोर्लिङ्गात् तद्धेतुदोषसंभवानुमानमपि युक्तमित्यपि इष्टव्यम् । अतो ऽस्माकं दोषाभाव भावाभ्यां प्रमाणतदाभासविवेकसि:ि, न परस्येति भावः ।