पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

280 बालतिविव्याख्या . विपर्यय इति । ‘भवति ’ इत्यादिना ‘न चैकवम्’ इत्यन्तेन विपर्यया। भाव एव दशतः । यतु नान्यत्वम्’ इत्युक्तम्ऽ तर्विविक्ततामबुद्धेत्यस्य विषयप्रदर्शनार्थं प्रसङ्गादुक्तमिति मन्तव्यम् । तस्माद्यत्र सामान्यदर्शने संशयविपर्ययये न स्तः, तत्र विवेकज्ञानमत्रम् । न च तत्प्रसक्तप्रतिः षेधात्मकम् , शुक्तिरजतयोरेकवाप्रतीतेःशुक्तौ रजतस्य प्रसक्यभावात् । विवेकग्रहणाभावादिति । स्मृतस्य च रजतस्य वर्तमाने काले कालतो वर्तमानत्वे ; कालग्रहणमुपलक्षणम् , देशतश्च ; संनिधेः संवित्तितः रजतस्य पुरोवर्तिवत् पुरोवर्तिनो वा रजतवदवभासात् रजतस्य प्राप्तौ प्रतिषेधोप पत्तयेऽभ्युपतायामसंनिहितस्य संनिधिप्रतीत्यभ्युपगमादन्यथाग्रहो विपरीता ख्यातिरिष्टा स्यात् । यदि परमसंनिहितत्वस्य शुक्तित्वस्य वा अग्रहस्तत्रा न्यथागृहे निमित्तं स्यात , तस्मिन्सति भावात् तदभावे चाभावात्, एत- चेष्टमेव न इति भावः । अथवा नासंनिध्यग्रहो निमित्तम् , अभावस्या निमित्तत्वात ; अपितु संनिधिंग्रह एव भावरूपत्वान्निमित्तम् । कीदृशोऽसी निमित्तमित्यपेक्षायामाह-भेदेति । संनिधिग्रहस्य हि • न रजतं संनिहितम्, अपितु शुक्तिः’ इति मेदस्य विवेकस्य ग्रहोऽपवादः ; स यावन्नपतति तावत्तेन रहितः संनिधिमूहोऽन्यथाप्रहस्य निमित्तम ; नापवादेनापोदितः । किंच विपर्ययस्य विपरीतख्यातेरनभ्युपगमे,. विवेकाग्रह | एव श्रमः ; सs प्रहनिबन्धन इति ब्रुवाणेन अग्रहऽग्रहनिवन्धन उक्तः स्यात् । एतच शब्दैकगग्यं, न तु वस्तुवृत्तेनैकस्यैव निमित्तनैमित्तिकस्वभेदोऽस्तीति भावः। वृत्तौ सुव्याहतमित्युपालम्भवचनम् । किंच स्मर्यमाणगूद्यमाणयोर्विवेकाग्रह चेत् श्रमः, ततः स्ने गृह्यमाणस्य कस्यचित द्वितीयस्याभावात् न स्मर्य मणस्याविवेको विवेकाग्रहो था अमः स्यात् । अथ गृध्रमाणाभावेऽपि स्मृतं मनोदोषात २मृतत्वेन विविक्तं सत् गृह्यमाणं स्खने भाति । न वैवमन्यथाख्यातिप्रसङ्गदोषः, यतो ग्रहणविशेष एव गृहीतग्रहणं स्मृति र्नान्या । अतो गृहीतशस्वप्रमोषे गृहीतिरवतिष्ठते । तेन स्वने तद्विषयस्य गृध्रमाणत्वेनावभामो मिथ्या । तदुक्तम् - ग्रहणस्य विशेषो हि गृहीतग्रहणं स्मृतिः । सोऽगृहीतांशमोषेण गृहीतिरवतिष्ठते । “ इति