पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगझण्डः 29 AS स्मृतिप्रत्यक्षयोः ‘ इदं रजतम्’ इति, विवेकज्ञानमिदं ‘नेदं रजतम्’ इति । न तु प्रसक्तप्रतिषेधधीरेषा ; अतो न पूर्वोक्तदोष प्रसङ्ग इति वाच्यम् । एवं हि धायद्वाणः स्वां प्रतीतिमपहते ! यस्मादभ्रान्तस्य शुद्धिरजतयोः क्रमे सति रजतमुपलभ्य पश्चाच्छुक्तितां विविक्कां पश्यतो यौगपचे वा युगपच्छुक्तिरजते विविक्ते पश्यतो या विवेकमतिर्भवति सा ‘नेदम् ' इती दृशी न भवति, अपितु विविक्ते एते ईदृशी, इयं तु ‘नंदम्' इती दृशी जायेत इत्यसौ प्रतिपद्यते; तथाप्यपहृते. । न चैतत्प्रतीत्यनुसारिणो ऽनुरूपमिति भावः । शुक्तिरजतयोरविविक्तयोर्बहणे स्यादीदृशीति चेत्, इदमस्माकमपीत्याह-प्राप्तेरिति । शुक्तिरजतयोरैक्ष्यस्याभेदस्य प्रापितायाम् इदं रजतम्’ इति विपरीतसंवित्तौ सत्यां रबतस्य पुरोवर्तित्वेन प्राप्तेः प्रसक्तप्रतिषेधात्मा ‘नेदम्’ इति प्रतीतिः स्यात्; न तु तयोर्भेदस्यानग्रहणे, तस्याभावरूपस्याप्रापकत्वेन प्राप्त्यभावाद्ययैः । इतश्च विवेकबुद्धिः प्रतिषेधात्मिका न भवतीत्याह-रजतस्येति, कर्मणि षष्ठी । रजतं स्मरन् चक्षुःसंयुक्तस्य च शुक्तिवस्तुनः शूठ्भाखरादिरूप- सामान्यं दृष्ट्वा विपर्ययानुदयेऽपि स्मृताद्रजताच्छुक्तेर्विविक्ततां चक्षुषोऽप्र सादात् प्रथममबुढा पक्षाच्चक्षुषः प्रसादौहृषिकरूपज्ञाने सति ‘शुक्ति रियम्’ इति रजताच्छुतिं विविधान् ‘नेदं रजतम्' इत्येवमन्यनिषेधेन न प्रत्येति, शुक्तिरजतयोरविवेकग्रहणमावात्, अप्रसक्तस्य च प्रतिषेधानुप पत्तेः । अतश्च तत्र यथा विवेकज्ञानमप्रतिषेधात्मकम् , एवं च प्रमेऽपि स्यात्, न चैवम् । वनु सामान्यदर्शने यत्रापि विपर्ययो न भवति तत्रापि संशयः स्यात्; तदपनोदकं च निर्णयज्ञानमेककोटिनिषेधात्मकमेव ; अतः कथमु च्यते--'विविधनैवं प्रत्येति’ इति) इत्याशङ्कयाह - सामान्येति । स्यादेवं यदि नियोगतो नियमेन सामान्यदर्शने संशय एव स्यात् । स तु कोटि ह्यस्मरणोत्थः; तदभावे कचिन्न भवत्यांपे । तेन तदमिप्रायेणास्माभिरिद मुक्तम्-- विविधनैवं प्रत्येति’ इति । ननु सामान्यदर्शने यदि संशयो न भवति, विपर्ययस्तर्हि स्यात् । तदपबाधकं च ज्ञानं निषेधात्मकमेव । अतः कथमुच्यते -- नैवं प्रपेति' षीति इत्याशङ्कच वृत्तावुक्तम्--न च