281 तत्र च स्मृतत्वेन विवेकज्ञानं बाधकमिति चेदतआह-मृनत्वेनेति । स्मृतत्वेनाविवेकेऽभ्युपगम्यमाने यथा स्मृतावज्ञातस्य 'मृनत्वधर्मस्य ज्ञानं बाधकं तवधमस्य ज्ञानं वा, यया च तत्र स्मृनत्परहितं तद्धर्ममात्रं गृहतं स्मृतिर्जुमःतथा दूरादनिरूपितरूपविशेषे धर्मिणि देवदत्तादौ ज्ञाते पुनः समीपे ‘गौरोऽयम्’ इति घर्मान्तरप्रतीतेर्वाचकत्वं पूर्वस्याश्र धर्मिमात्र प्रतीतेर्भान्तित्वं स्यात् किंच स्मृतः परक्षायंग्राहिण सा गृहनांश मोषेऽपि परोक्षार्थगृहीतिरूपेणावतिष्ठेत । वने चापरोक्षार्यवदवभासस्तव न स्यात् ? न चागृहीतिरित्येव सर्वगृहीतिरपरोक्षार्थं, अनुमानादौ व्यभि चारात । तस्मादसदेतत् । इतिः लोकार्यसमाप्तौ । यच्चोक्तं रजतं प्रतीयते, शुक्तिर्विषय इति प्रतीतिविरुद्धमिति ; स स्वदोष एवासञ्चितः; यतः ‘सितमिदं पुरोवर्तिद्रव्यं रजतम' इति सामान् नाधिकरण्येन बोधादनयोरभेदप्रतीतिरस्ति; सा विवेकाग्रहवादिनो विरुध्यत इत्याह--य इति । श्रमे शुक्तित्वस्याज्ञानत् शुक्लमात्रस्येदमंशस्य ज्ञानात् ‘सितम्’ इत्युक्तम् । तत्र यद्यप्येकमिदमभेदप्राहि सामानाधिकरण्यज्ञानं प्रतिभाति, तथाप्यन्यस्यान्यभावानुपपया स्मृतिगृहीतिरूपे भिते इमे ज्ञाने इति कल्पयिष्याम इत्याशङ्कयाह-ज्ञानेति । सामानांघिकुरण्यप्रतीतिसिदं चेत् , अन्यस्यान्यथाभावे न विरोधः ? न हि प्रतीतिसिद्धे विरोधोऽस्ति ; अप्रतीतिनिबन्धनत्वात्तस्येति भावः । ननु नेदं रजतज्ञानमिन्द्रियम् , असंनिहितेनेन्द्रियसंनिकर्षामावात् ; नापि लिङ्गादिजम् , लिङ्गादेरभावात् ; अस्ति तु पूर्वानुभवजसंस्कारः प्रतीतिहेतुः । तस्मात्स्मृतेः कारणसद्भावात् स्मृतिरेव रजतज्ञानमिति प्रतीमः । मैवं वादः । इन्द्रियजमेवेदं रजत- ज्ञौनम् । ननु रजतेन्द्रियसंनिकर्षों नास्तिअसंनिधानात् । बहम् । कथं तर्हि ज्ञानमनिन्द्रियजम् ! शुक्तीन्द्रियसंनिकर्षात् । तु विशेषः अयं यददुष्टमिन्द्रियं तत्तथा, दुष्टस्वन्यथावभासयति दोषसामर्यादित्यदोषः । इदानीमनाश्वसाचेति यदुक्तं तत्परिहरति- अनाश्वस इति । एकत्रा न्यथास्वेदशंग--भं जायमानेऽर्थे तथात्वं प्रत्यनाश्वसो यः, स तज्ज्ञानेनैव तथात्वपरिच्छेदकेन बाध्यत ? तथात्वपरिच्छेदकं ज्ञानमनिरुद्ध- न्यथात्वाशॐ नोघनमर्हतीत्युक्तं भवति । तथाहि---अनाधासनिवृस्यर्यमपि
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१४
दिखावट