47B वक्षसिद्धिव्याख्या विविक्तयोः स्मरणे विपर्ययो न स्यात् , भवति चासावपि कदाचिदिति 418 यद्यपि दोषोऽस्ति, तथापि दूषणान्तरमाह--विशेषेति । न च स्मृतौ विशेषाग्रहेऽपि कदाचिद्भवति; यतो न निर्धारितविशेषे वस्तुमात्रं स्मर्यते, अपितु वस्तुविशेष एव रजतादिः । अथोच्यते—न बूमो वस्तुविशेषो न स्मर्यत इति; किंतु स्मर्यमाणेऽप्यसौ यदा पूर्वाधिगतदेशकालविशेषा पन्नः तद। गृह्यमाणाद्विविच्यते देशकाल स्मर्यते, ज्ञानात् । यत्र तु विशेषाग्रहः, तत्र न विविच्यते । तेन देशकालविशेषात्स्मृतं विविच्यते, तदभावे त्वविवेकाद् भ्रम इति, तत्राह--देशेति । अत्र हेतुमाह अनेनेति । देशग्रहणमुपलक्षणम् , अनन्तदेशकालाधिगतम् _ । ततो देश कालविशेषात् स्मर्यमाणं गृह्यमाणं न पुनर्विविक्तं गम्यते; अपितु खत एव स्मृतिर्विविनक्ति । अन्यथा हि यद्यपि सकृद्देशकालज्ञातस्य रंजतादेर्देशकालस्मृतिसंभवः, तथापि अनन्तदेशकालाधिगतानां रजतादीना- मनन्तदेशकालस्मरणातंभवात् यस्य रजतादेर्देशकालविशेषः स्मर्यते, तत एव दृश्यं विविच्येत, नान्यस्मादस्मर्यमाणदेशकालाविशेषात् । अतश्च येनानन्तदेशकालौ सर्वदेकालविशेषस्मरणासंभवात रजतद्यधिगतं तस्य सदा स्मृतेरविवेकवाद् भ्रान्तिः स्यादित्यर्थः । यदि च समुचितयोर्देश- कालयोर्विवेचकवं, तदा तद्देशाधिगते तत्रैव स्मर्यमाणे यद्यपि कालभेदो ऽस्ति, तथापि देशे दाभावान्नियमविवेकःततश्च सदा भ्रान्तित्वप्रसङ्गः ; न चैवम् । तस्मात् ’ देशकालविशेषो न विवेकहेतुः । तेन तयोरग्रह- विवेके भ्रम इत्यपि न युक्तम् । अथ ‘स्मरामि’ इत्युळेवेन स्मर्यमाणताज्ञानात् स्मृतस्य त्रिवेकः तदभावे चाविवेकः ; तेन ‘स्मरामि’ इति ज्ञानशून्यानि रजतादिज्ञानानि श्रान्तिवहेतव इत्युच्यते, तत्राह--पूतिरिति । रजतस्मृतेरन्यदेव रजते स्मृतिरियम्’ इति स्मृतित्वप्राहि ’स्मरामि’ इति ज्ञानमुदाहृतम् । अतः स्तदभावेऽपि रजत स्मृतिः संपूर्णाव; न तया याविषयस्य किंचिन्न गृहीतम्, यन तस्याः प्रमोषः स्यात् । एवं च स्वयमेव सा खविषयं गृह्यमाणात विनक्ति । कुतः स्मर्यमाणगुष्ठमाणयोरविवेकः ? यतो भ्रान्तिः स्यादित्यर्थः । के विपर्ययशब्दौ भ्रान्तिमात्रपरौ ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०९
दिखावट