पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गति_ नियोगकाण्डः 25 च गृह्यते, द्रव्यं चेन्द्रियदोषात् खगुणरहितं स्फटिकमणिरिव जपोपहितः । । तदेवं द्रव्यगुणयोरन्योन्यापेक्षयोरसंबन्धानवबोधात् भ्रमः । इन्द्रियं बहि व्यपारयितव्यम् । तकथम्? उच्यत—बहिरव्यापारात् नाक्षिगतमदषा दृश्यते, यथा अञ्जनम् । नन्वञ्चने नायनतेजोवृत्तिनिरोधकम् ? पित्तेन तु काचेनेव (न) तेजोवृत्तिर्निरुध्यते ; प्रसरच नायनतेजो ग्राहक्रम् नाश्रय स्यम् । तदयुक्तम् इन्द्रियमात्मस्थयीतगुणं चेत् गृह्वाति, ततो बहिरर्थे cवव्यापृतमपि गृहीयात् । ततश्च बहिरिन्द्रियमव्यापारयतोऽपि पुंसः पीनि मादिसंवेदनं स्यात् । न चैवम् । किं नयनेनातो नाव्यापृतेनाञ्जनरुद्धेन च नयनपित्तपीतिमा गृह्यते ? नैवम् । एवं हि खगतं कृष्णिमानमक्षिगतं च जलं गृीयात् , तयोरपि तेजोवृत्ति(य)प्रतिरोधकत्वात् । तस्मात्प्रसर- दपि नायनं तज । बहिरेव गृद्धांत, न नेत्रस्थम् । शङ्खण्डयोरपि फेन- चिह्नपेण पीततिक्ताभ्यां किंचित्सादृश्यमस्ति ; तेन शङ्करवण्डावुपलभ्य पीत तिक्तरस्मृतिीम नहि सादृश्यं नास्तीति इति चेत्, ; एवं क्व नाम तथा शी खण्डे वा न कश्चिद्रमो न स्यात्, अपि तु सर्वप्रकारः स स्यात्। तदेवं दोषमुक्तमुपजीव्य परपक्षे खपक्षे साधुत्वमाह-तस्मादिति । कस्य चिदिन्द्रियदोषस्य क्वचिद् भ्रमे सामथ्र्यमिति . दृगादीन्द्रियदोषसामर्यस्य विभागात्क्वचित्कस्यचिद्रम इति भ्रमेषु नियमो भवति । यदि दोषदग्रहण- मात्रं स्यात् न तु विपर्ययः, तद कामिलादिदोषभेदात् भ्रमेषु नियमो न स्यात् । न हि स अमनियमः सादृश्यानिमित्तः , असदृशेऽपि पीतशङ्कादौ भ्रमदर्शनादिति भावः । माणग्रञ्चप्राणयोरविवेक खज्ञानादेव स्मृतं विविच्यते, तत्र कुतः रमये इति सिद्धान्तिनोक्ते, सत्ये स्वज्ञानादेव स्मृतं विविच्यते ; अये तु विशेषः यद्विशेषग्रहिण्यपि प्रत्यक्षे दूरत्वादिदोषादूर्वतादिदर्शने कदाचिद्विशेषाग्रहो यया, तथा स्मृतावपि मनोदोषादग्रहः कदाचिद्भवति । तदा विवेवभवो श्रान्तित्वं च । सति तु मनोदोषाभावाद्विशेषग्रहे पुरोवर्तिनीन्द्रियसंयुक्तेऽपि स्थाणौ पुरुषे चोर्चतासामान्यदर्शनेऽपि विशेषज्ञानेन विवेचितत्वात् तदवि वैकामावः । ततश्चोभयकोटिस्मरणे संशयः । एकमृते तु न संशयो न विपर्ययः । अतश्च ‘अन्यथा तु स्यात् सदा सामान्यदर्शने । विपर्ययो ऽन्यं स्मरतः' इत्यादिर्न दोघो भवतीति परमतमाशङ्कय, एवमपि यो