20 महासाच्यांच्या नापि लिङ्गादिजम् , लिङ्गादेरभावात् । अस्ति तु पूर्वानुभवजः स्मृतिहेतुः संस्कारः । तस्मात् स्मृतेः कारणसद्भावात् स्मृतरेवायं रजतप्रत्यय इत्यर्थः । किंच विषयस्य शुक्तेः रूपं चेन्नानुकरोति ज्ञानम् , शुक्त्याकारं न भवति अपितु रजताकारं भवति, तदा तज्ज्ञानं निरालम्बनं स्यात् । न चैत- दुचितम् । न विद्यते आलम्बनं विषयो यस्येति विग्रहः । शुक्त्याख्यः विषयाननुकारादविषयत्वमुक्तम् । अनालम्बनमिति च दृष्टान्तलाभेन बौद्धानां निरालम्बनानुमानस्यावकाशः स्यादिति वचनार्थमुक्तम् _ । अग्राह्यमिति च कर्मविज्ञानक्रियानुषपात्तिमूचनार्यमिति विवेकः । ननु यदि नाम शुक्तिर्वेद्य तया नालम्बनं, तथापि हेतुतया भविष्यति ; अस्ति च निरधिष्ठानभ्रमा- संभवात् तस्या हेतुत्वमित्याशङ्कचाह-हेत्विति । हेतुमात्रस्यालम्बनत्वे चक्षु रादेरपि ज्ञानालम्बनता स्यात् । न च तद्दष्टम् । तस्माद्देद्यमेवालम्बनम्, न च शुक्तिस्तथेति नालम्बनमित्यर्थः । यदि च हेतुमात्रतयालम्बनमयं न वेद्यतया तथा सति ज्ञानस्यावेदकत्वात् प्रमाणान्तरापेक्षादपि ततो जाना दर्थसिद्धिर्न स्यात्, किमुत निरपेक्षात् । अतश्चनपेक्षी ज्ञानप्रामाण्यं न स्यादित्यभिप्रायेणाह--तथा चेति । यदि विपरीतार्थं रजतज्ञानमिदं न भवति, किं तह्रदं रजतज्ञानमिति सिद्धान्ती पृच्छति –कथमिति । अपर आह--शुक्तीति । स्मृतेरुत्पत्तिहेतुमाह--सामान्येति । शुद्ध भावरत्वादि- रूपस्य शुक्तिरजतयोः सामान्यस्य दर्शनात् सदृशां शुक्तिं दृष्टवतः संस्कारोद्वोधात रजते स्मृतियत इत्यर्थः । तदुक्तम् - सदृशाइट्- चिन्ताभ्यां स्मृतिबीजस्य बोधकः” इति । यदि शुक्तः ‘इदम्’ इति ग्रहणं रजतस्य च स्मृतिःततस्तयोर्यथथतयैव कथं भ्रान्तित्वमिति सिद्धान्ती पुनः पृच्छति—भ्रान्तिः कथमिति । पर आह-प्रत्यक्षेति । इदम्’ इति प्रत्यक्षस्य शुक्तिशकलस्य ये विशेषा रजतादिविवेकहेतवः तेऽमिभवान्न ज्ञाताः । शुक्लभास्वरत्वादिसामान्यमात्रं ज्ञातम् । स्मृत्यापि मनोदोषात् तत् ’ इत्युच्छेखरहिततया रजतं गृघमाणात् शुक्तिशकलात पूर्व देशकालगतत्वेनाविवेचितम् । तदेवं प्रत्यक्षस्मर्यमाणयोरविवेकात् रजतबुडा ‘शुक्तौ प्रवृत्तस्य व्यवहारे विसंवादाद्यथार्थयोरपि स्मरणग्रहणयोश्नन्ति मिल्र्थः । ननु 'इदं रजतम्’ इति सामानाधिकरण्येन प्रतीतेरभेदग्रहण- .
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०३
दिखावट