पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

71 e मिति कथमुच्यते, विवेकाग्रहणादित्याशङ्क्याह-सोऽयमिति । अत्र दृष्टान्तमाह-यथेति । तथा आलोकाग्रहणे कृष्णतमोरूपज्ञानाभिमानोऽ न्थानामुदाहार्यम् । खपक्षमुपसंहरति--तस्मादिति । तदेतत्सिद्दन्ती दृषयति-अत्रतेि । यदुक्तं नान्यस्यान्यथा भान मिति ; यदि चक्षुःसंयुक्तं शुक्तिशकलं रजतमित न प्रतीयात् , रजतं वा देशान्तरगतं तथा पुरोवर्तितया न प्रतीयात्, तदा रजतार्था रजत मादातुकामः शुक्तिशकले न प्रवतत ; शुक्तिशकलस्य रजनत्वेनानवगमात् । यद्धि रजतत्वेनानवगतं न तत्र रजताथ प्रवर्तते, यथा लोष्टादेषु । अथ रजत एव स्मर्यमाणे सा प्रवृत्तिरित्युच्यते, तन्न; स्मर्यमणस्य पुरोवर्तिनि देशे संनिधानाभावात् पुरोवर्तिनि देशे प्रवृत्तिर्न स्यात्, अपितु पूर्वदृष्ट एव रजते प्रवर्तेत । अथ ‘तत्’ इत्युळेखरहितया स्मृत्या रजतमात्र मुपस्थापितम्, न पूर्वदेशसंबन्धः; तेन रजतमात्रप्रतीतेरसंनिधेश्चाप्रतीतेः शुक्तौ प्रवृत्तिरुच्यते, तन्न ; एवं हि सर्वमिदमन्यत्राप्यविशिष्टमिति तत्रापि प्रवर्तेत, न शुक्तावेव । शुक्तौ तु यन्नियमेन प्रवर्तते, तत्तत्र रजतसंनिधि- कारितम् । तत्संनिधिश्च भवति यदि शुक्ती रजततया गृहीता स्यात् नान्यथा । न हि तस्य वस्तुनः संनिधिरस्ति । तस्माच्छुक्ती रजततया । गृह्यत इति भावः । अथ अन्यदशषु वस्तुषु सावशषषु प्रत्यक्षेण गृहीतेषु रजताद्विवेकस्य भेदस्य ग्रहणादप्रवृत्तिः, शुक्तौ विवेकाग्रहणात् प्रवृतिः ; विवेकाग्रहणं च शुक्लेशंखररूपसामान्यनिबन्धनात् सादृश्यात् विवेचकानां च शुक्ले विशेष णानामप्रतीतेरित्युच्यते ; एवमप्यदृष्टेष्वपि लोष्टादिष्वदृष्टत्वादेव विस्मृते आविवेकत्वाद्रजताद्विवेको न गृहीत इति तेष्वपि प्रवर्तेत । अथ तेषु रजतबुद्धिर्नास्ति, तेन तेषु न प्रवर्तते ; तर्हि शुक्तवथि रजतबुद्धिर्नास्ति, तत्रापि न प्रवर्तेत अथास्ति शुक्तौ रजतबुद्धिरित्युच्यते, ततो विपरीत तार्थाख्यातिरापन्न: कय सापहयेत ? विपरीतोऽयों यस्या इति विग्रहः ।। अथ लोष्टादिष्वदृष्टत्वादप्रवृत्तिः , तर्हि शुक्तिरपि रजततया न इष्टेति तत्रापि रजतार्थिनः प्रवृत्तिर्न स्यात् , शुक्लिः शुक्लं भाखरादिसामान्यस्वरूपेण इति चेत् , तन्न ; न हि सामान्यरूपेण रजतार्थिनः प्रवृत्तिकारणम्